________________
Ill
IMell Mall
Mail
उत्तराध्ययन
सूत्रम् १०६१
el
lisil
॥ दर्शनावरणीयं, पञ्चविधमन्तरायं 'एएत्ति' एतानि त्रीण्यपि 'कम्मंसेत्ति' सत्कर्माणि युगपत्क्षपयति, तत इति क्षपणात: पश्चात् न विद्यते उत्तरं । ॥ प्रधानं ज्ञानमस्मादित्यनुत्तरं, अनन्तं अविनाशित्वात्, कृत्स्नं कृत्स्नार्थग्राहकत्वात्, प्रतिपूर्ण सकलस्वपरपर्यायप्रतिपूर्ण वस्तु प्रकाशकत्वात्, प्रराक्रमनामै ॥ निरावरणमशेषावरणविगमात्, वितिमिरं तस्मिन् सति क्वचिदप्यज्ञानतिमिराभावात्, विशुद्ध सर्वदोषाभावात्, लोकालोकप्रभावकं ॥ एकोनत्रिंश॥ तत्स्वरूपप्रकाशकत्वात्, केवलवरज्ञानदर्शनं समुत्पादयति । स च यावत्सयोगी मनोवाक्कायव्यापारवान् भवति तावत् 'इरिआवहिअंति' ईर्या मध्ययनम् ॥ गतिस्तस्याः पन्थाः ईर्यापथस्तस्मिन् भवमैर्यापथिकं, उपलक्षणं च पथिग्रहणं, तिष्ठतोऽपि सयोगस्येर्यासम्भवात्, कर्म बध्नाति ।। ॥ तत्कीदृशमित्याह-सुखयतीति सुख: स्पर्श आत्मप्रदेशैः सह संश्लेषो यस्य तत् सुखस्पर्श, द्विसमयस्थितिक, तदधिकस्थितेः कषायप्रत्ययत्वात् । ॥ Mon यदुक्तं - "जोगा पयडिपएस, ठिइ अणुभागं कसायओ कुणइत्ति" । तत्प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमये निजीण परिशटितं
॥ ततश्च तद्वद्धं जीवप्रदेशः श्लिष्टमाकाशेन घटवत्, तथा स्पृष्टं मसृणमणिकुड्यापतितशुष्कस्थूलचूर्णवत् । अनेन विशेषणद्वयेन तस्य । in निधत्तनिकाचितावस्थयोरभावमाह । उदीरितमुदयप्राप्तं उदीरणायास्तत्रासम्भवात्, वेदितं तत्फलसुखानुभवनेन निर्जीण क्षयमुपगतं, nan सेअकालेत्ति' सूत्रत्वादेष्यत्काले चतुर्थसमयादावकर्म चापि भवति, तज्जीवापेक्षया पुनस्तस्य तथाविधपरिणामासम्भवात्, एतञ्च ॥ in एवंविधविशेषणान्वितं सातकर्मासौ बध्नाति, तस्य तदन्यबन्धासम्भवात् ।। ७१।। ७३ ।। स चायुषः प्रान्ते शैलेशी गत्वाऽका स्यादिति ॥
शैलेश्यकर्मताद्वारे अर्थतो व्याख्यातुमाह - ||sil अहाउअंपालइत्ता अंतोमुहत्तावसेसाउए जोगनिरोहं करेमाणे सुहुमकिरिअं अप्पडिवाइ सुक्कज्झाणं ज्झिआयमाणे तप्पढमयाए ॥
१०६१ ||
sil
sa Isl
llel
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org