SearchBrowseAboutContactDonate
Page Preview
Page 1102
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १०६० GAAOTTOOT बंध, सुहफरिसं दुसम्यट्ठितिअं, तं पढमसमए बद्धं बिइ असमए वेइअं तइअसमए निज्जिण्णं तं बद्धं पुढं उईरिअं वेइअं निज्जिण्णं सेअकाले अकम्मं चावि भवइ ।। ७१ । । ७३ ।। व्याख्या - प्रेम च रागरूपं द्वेषश्चाप्रीतिरूपो मिथ्यादर्शनं च मिथ्यात्वं प्रेमद्वेषमिथ्यादर्शनानि, तद्विजयेन || ज्ञानदर्शनचारित्राराधनायामभ्युत्तिष्ठते उद्यच्छते प्रेमादिनिमित्तत्वात्तद्विराधनायास्ततश्चाष्टविधस्य कर्मणो मध्ये इति शेषः यः ॥७॥ || कर्मग्रन्थिरतिदुर्भेदत्वात् घातिकर्मरूपस्तस्य विमोचना क्षपणा कर्मग्रन्थिविमोचना तस्यै, चस्य गम्यत्वात्तदर्थं चाभ्युत्तिष्ठते । अभ्युत्थाय च किं करोतीत्याह तत्प्रथमतया तत्पूर्वतया न हि पुरा तत्क्षपितमासीदिति, यथानुपूर्वि आनुपूर्व्या अनतिक्रमेण अष्टाविंशतिविधं मोहनीयं कर्म ॥ उद्घातयति क्षपयति, तत्क्षपणाक्रमश्चायम् पूर्वमनन्तानुबन्धिनः क्रोधादीन् युगपत् क्षपयति, तदनु क्रमान्मिथ्यात्वं मिश्रं सम्यक्त्वदलिकं च ॥७॥ तदनु प्रत्याख्यानाप्रत्याख्यानकषायाष्टकं क्षपयितुमारभते, तस्मिंश्चार्द्धक्षपिते नरकगत्यानुपूर्वी २ तिर्यग्गत्यानुपूर्वी ४ ॥ एकेन्द्रियादिजातिनामचतुष्का ८ ऽऽतपो ९ द्योत १० स्थावर ११ सूक्ष्म १२ साधारण १३ निद्रानिद्रा १४ प्रचलाप्रचला १५ स्त्यानद्धिं १६ ॥ लक्षणाः षोडश प्रकृतीः क्षपयति, ततः कषायाष्टकावशिष्टं क्षपयित्वा क्रमात् नपुंसकवेदं स्त्रीवेदं हास्यादिषट्कं पुरुषवेदं च क्षपयति, यदि ॥ पुरुषः प्रतिपत्ता, अथ स्त्री षण्ढो वा तदा स्वस्ववेदं प्रान्ते क्षपयति । तदनु क्रमात् सञ्ज्वलनक्रोधमानमायालोभान्, क्षपणाकालश्च प्रत्येकं सर्वेषां वा अन्तर्मुहूर्त्तमेव । इत्थं चैतदन्तर्मुहूर्त्तस्यासङ्ख्यभेदत्वात् । इत्थं मोहनीयं क्षपयित्वान्तर्मुहूर्त्तं यथाख्यातचारित्रं प्राप्तः क्षीणमोहद्विचरमसमययोः प्रथमसमये निद्राप्रचले क्षपयित्वा चरमसमये यत्क्षपयति तत्सूत्रकृदेवाह-पञ्चेत्यादि पञ्चविधं ज्ञानावरणीयं, नवविधं Jain Education International For Personal & Private Use Only सम्यक्त्व प्रराक्रमनामै एकोनत्रिंश मध्ययनम् १०६० www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy