________________
yon
llol
||Gil
उत्तराध्ययन
सूत्रम् १०५०
॥ तयाऽधिकोपकरणत्यागरूपया लाघवमस्यास्तीति लाघविकस्तद्भावो लाघविकता तां, द्रव्यतः स्वल्पोपकरणत्वेन भावतस्त्वप्रतिबद्धतया जनयति । । सम्यक्त्व
लघुभूतश्च जीवोऽप्रमत्तस्तथा प्रकटलिङ्गः स्थविरकल्पिकादिरूपेण विज्ञायमानत्वात्, प्रशस्तलिङ्गो जीवरक्षाहेतुरजोहरणादिधारकत्वात्, कि प्रराक्रमनाम ॥ विशुद्धसम्यक्त्वः क्रियया सम्यक्त्वविशोधनात्, 'सत्तसमिइसम्मत्तेत्ति' सत्यं च समितयश्च समाप्ता: परिपूर्णा यस्य स समाप्तसत्यसमितिः, सूत्रे l एकोनत्रिंशHo क्तान्तस्यान्ते निपात: प्राकृतत्वात् । अत एव सर्वप्राण-भूत-जीव-सत्त्वेषु विश्वसनीयरूपस्तत्पीडापरिहारित्वात्, अल्पप्रत्युपेक्षोऽल्पोपधित्वात्,
मध्ययनम् MS जितेन्द्रियो विपुलेनानेकभेदतया विस्तीर्णेन तपसा समितिभिश्च सर्वविषयव्यापितया विपुलाभिरेव समन्वागतो युक्तो विपुलतपसमितिसमन्वागतश्चापि HB भवति । पूर्वत्र समितीनां पूर्णत्वाभिधानेन सामस्त्यमुक्तमिह तु सर्वविषयव्यापित्वमिति न पौनरुक्तयम् ।। ४२।। ४४।। प्रतिरूपतायां वैयावृत्त्यादेवेष्टसिद्धिरिति तदाह -
वेआवञ्चेणं भंते ! जीवे किं जणयइ ? वेयावघेणं तित्थयरनामगो कम्मं निबंधइ ।।४३।। ४५।। व्याख्या - स्पष्टम् ।। ४३।। ४५।। वैयावृत्त्येनार्हन्त्यप्राप्तिरुक्ता अहंश्च सर्वगुणसम्पन्नः स्यादिति तत्तामाह -
सव्वगुणसंपन्त्रयाए णं भंते ! जीवे किं जणयइ ? सव्वगुणसंपन्नयाए णं अपुणरावत्तिं जणयइ, अपुणरावत्तिपत्तए अणं ॥ जीवे सारीरमाणसाणं दुक्खाणं नो भागी भवइ ।। ४४।। ४६।।
व्याख्या - सर्वे गुणा ज्ञानादयस्तैः सम्पन्नः सर्वगुणसम्पन्नस्तद्भावः सर्वगुणसम्पन्नता तया अपुनरावृत्तिं मुक्तिं जनयति, तांच प्राप्त एव प्राप्तको ला जीव: शारीरमानसानां दुःखानां नो भागी भवति, तत्कारणवपुर्मनसोरभावात् ।।४४।।४६।। सर्वगुणवत्ता च वीतरागतायां स्यादिति तामाह - foll
incli १०५० ||७||
For Personal &
P
o
ly