SearchBrowseAboutContactDonate
Page Preview
Page 1087
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १०४५ ____ व्याख्या - विनिवर्त्तनया विषयेभ्य आत्मनः पराङ्मुखीकरणरूपया पापकर्मणां ज्ञानावरणादीनां 'अकरणयाएत्ति' आर्षत्वादकरणेन, सम्यक्त्व5. अपूर्वानुपार्जनेनाऽभ्युत्तिष्ठते मोक्षायेति शेषः, पूर्वबद्धानां निर्जरणया तदिति पापकर्म निवर्त्तयति विनाशयति ।।३२।।३४।। विषयनिवृत्तश्च कश्चित् सम्भोगप्रत्याख्यानवानपि स्यादिति तदाह - is एकोनत्रिंशसंभोगपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? संभोगपञ्चक्खाणेणं आलंबणाई खवेइ, निरालंबणस्स य आययद्विआM मध्ययनम् ISM जोगा भवंति, सएणं लाभेणं तुस्सइ, परस्स लाभं नो आसाएइ, नो तक्केइ, नो पीहेई, नो पत्थेइ, नो अभिलसइ । परस्स लाभं ॥ is अणासाएमाणे अतक्केमाणे अपीहेमाणे अपत्थेमाणे अणभिलसेमाणे दोचं सुहसिजं उपसंपजित्ताणं विहरइ ।।३३।।३५।। व्याख्या - सम्भोगएकमण्डलीभोक्तृत्वं, अन्यमुनिदत्ताहारादिग्रहणमित्यर्थः, तस्य प्रत्याख्यानंगीतार्थत्वे जिनकल्पाद्यभ्युद्यतविहारप्रतिपत्या | IMS परिहारः सम्भोगप्रत्याख्यानं तेन आलम्बनानि ग्लानत्वादीनि क्षपयति तिरस्कुरुते, अन्यो हि मान्द्यादिकारणेष्वन्यदत्तमाहारादिकं गृह्णाति असो तु l कारणेऽपिन तथेत्येवमुच्यते, सदोद्यतत्वेन वीर्याचारं चावलम्बते । निरालम्बनस्य चाऽऽयतो मोक्षः स एवार्थः प्रयोजनं विद्यते येषामित्यायतार्थिका M योगाव्यापारा भवन्ति, सालम्बनस्य हि योगा: केचनतादृशानभवन्त्यपीति । तथा स्वकेन स्वकीयेनलाभेन सन्तुष्यति, परस्य लाभंनो आस्वादयति ॥ is न भुङ्क्ते, नो तर्कयति, नो स्पृहयति, नो प्रार्थयते, नो अभिलषति । तत्र तर्कणं यदीदं मह्यमसौ ददाति तदा शुभमिति विकल्पनं, स्पृहणं तत् ॥ IN श्रद्धालुतयाऽऽत्मन आविष्करणं, प्रार्थनं वाचा मह्यमिदं देहीति याचनं, अभिलषणं तल्लालसतया वाञ्छनं । एकाथिकानि वा एतानि १०४५ ||sl For Personal Price Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy