________________
उत्तराध्ययन
सूत्रम्
१०३९
व्याख्या – वाचनया पाठनेन निर्जरां कर्मपरिशाटं जनयति, तथा श्रुतस्यानाशातनायां च वर्त्तते, तदकरणे हि अवज्ञातः श्रुतमाशातितं सम्यक्त्वभवेत् । पाठान्तरे (“सुअस्स अणुसज्जणाए वट्टति" तत्र श्रुतस्यानुषञ्जने अनुवर्त्तने वर्त्तते, कोऽर्थः ? श्रुतस्याव्यवच्छेदं करोति) ततः प्रक्रमना श्रुतस्यानाशातनायामनुषञ्जने वा वर्त्तमानः तीर्थमिह गणधरस्तस्य धर्मः आचारः श्रुतप्रदानरूपस्तीर्थधर्मस्तमवलम्बते, तं चावलम्बमान आश्रयन् ॥ ॥७॥ एकोनत्रिंशमहानिर्जरस्तथा महत्प्रशस्यं पर्यवसानं अन्तः प्रक्रमात्कर्मणां यस्य स महापर्यवसानश्च मोक्षावाप्तेर्भवति । । १९ । । २१ ।। कृतवाचनः संशये पुनः || मध्ययनम् पृच्छतीति प्रच्छनामाह -
पडिपुच्छणयाएणं भंते ! जीवे किं जणयइ ? पडिपुच्छणयाएणं सुत्तत्थतदुभयाइं विसोहेइ, कंखामोहणिज्जं कम्मं वोच्छिन्द ||
।। २० ।। २२ ।
व्याख्या
पूर्वकथितसूत्रादेः पुनः प्रच्छनं प्रतिप्रच्छनं तेन सूत्रार्थतदुभयानि विशोधयति, 'कांक्षा' इदमित्थमित्थं वा ममाध्येतुमुचितमित्यादिका वाञ्छा सैव मोहनीयं कर्माऽनाभिग्रहिकमिथ्यात्वरूपं व्युच्छिनत्ति ।। २० ।। २२ ।। इत्थं स्थिरीकृतस्य श्रुतस्य विस्मृतिर्माभूत् इति परावर्त्तना कार्येति तामाह -
Jain Education International
-
परिट्टयाएणं भंते! जीवे किं जणयइ ? परिअट्टणयाएणं वंजणाई जणयइ, वंजणलद्धिं च उप्पाएइ ।। २१ ।। २३ ।। व्याख्या - परावर्त्तनया गुणनेन व्यञ्जनान्यक्षराणि जनयति तानि हि विस्मृतान्यपि गुणयतो झगित्युत्पद्यन्त इति उत्पादितान्युच्यन्ते, तथा ॥
१०३९
For Personal & Private Use Only
Bell
www.jainelibrary.org