SearchBrowseAboutContactDonate
Page Preview
Page 1064
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् १०२२ POOD S S S S SS SS निस्संकिय निक्कंखिय, निव्वितिगिच्छा अमूढदिट्ठी अ । उववूह - थिरीकरणे, वच्छल्ल - पभावणे अट्ठ ।। ३१।। व्याख्या - शङ्कनं शङ्कितं देशसर्वशङ्कारूपं तदभावो निःशङ्कितं । तथा काङ्क्षणं काङ्क्षितं अन्यान्यदर्शनाभिलाषात्मकं तदभावो निःकाङ्क्षितं । विचिकित्सा फलं प्रति सन्देहः, यद्वा विदो विज्ञास्ते च साधव एव तेषां जुगुप्सा निन्दा, तदभावो 'निर्विचिकित्सं' 'निर्विजुगुप्सं' वा, आर्षत्वाच सूत्रे एवं पाठः । 'अमूढा' ऋद्धिमत्कुतीर्थिकदर्शनेऽपि निन्द्यमस्मद्दर्शनमिति मोहहीना सा चासौ दृष्टिश्च बुद्धिरूपा ॥ अमूढदृष्टिः, सा च । अयं चतुर्विधोऽप्यान्तर आचार उक्तो बाह्यमाह उपबृंहा दर्शनादिगुणवतां प्रशंसया तत्तद्गुणपरिवर्द्धनं, स्थिरीकरणं स्वीकृतधर्मानुष्ठानं प्रति सीदतां स्थैर्यापादनं, तयोर्द्वन्द्वे उपबृंहास्थिरीकरणे । वात्सल्यं धार्मिकजनस्योचितप्रतिपत्तिकरणं, प्रभाव स्वतीर्थोन्नतिचेष्टासु प्रवर्त्तनं, अनयोर्द्वन्द्वे, वात्सल्यप्रभावने । 'अट्टत्ति' अष्टामी दर्शनाचारा भवन्तीति शेषः इति सूत्रार्थः ।। ३१ । । इत्थं ॥ ज्ञानदर्शनरूपं मुक्तिमार्गमुक्त्वा चारित्ररूपं तमाह - सामाइअत्थ पढमं, छेओवट्ठाणं भवे बीअं । परिहारविसुद्धीअं, सुहुमं तह संपरायं च ।। ३२ ।। अकसायमहक्खामं, छउमत्थस्स जिणस्स वा । एअं चयरित्तकरं, चारित्तं होइ आहिअं ।। ३३ ।। STDOSTS: व्याख्या - समो रागद्वेषरहितः, स चेहप्रक्रमात्तिपरिणामस्तत्राऽऽयो गमनं समायः, स एव सामायिकं, सर्वसावद्ययोगत्यागः 'त्थ' पूरणे, प्रथममाद्यं । इदं च द्विधा, 'इत्वरं' 'यावत्कथिकं' च । तत्रेत्वरं भरतैरावतयोः प्रथमचरमजिनतीर्थयोरुपस्थापनां यावत्, तत्र हि Jain Education International For Personal & Private Use Only SELT ॥७॥ मोक्षमार्ग STATTATOE गतिनाम अष्टाविंशमध्ययनम् १०२२ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy