SearchBrowseAboutContactDonate
Page Preview
Page 1056
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् १०१४ GOODOODLE TTTTT नाणं च दंसणं चेव, चरित्तं च तवो तहा । वीरिअं उवओगो अ, एअं जीवस्स लक्खणं ।। ११ ।। व्याख्या- 'वीरिअंति' वीर्यं सामर्थ्य, उपयोगो अवहितत्वं, एतत् जीवस्य लक्षणं । अनेन हि जीवोऽनन्यसाधारणतया लक्ष्यते । । ११ । । अथ पुद्गललक्षणमाह सबंधयार उज्जोओ पहा छायाऽऽतवेइ वा । वण्ण-रस-गंध-फासा, पुग्गलाणं तु लक्खणं ।। १२ । । व्याख्या - शब्दो ध्वनिः, अन्धकारो ध्वान्तं, उभयत्र सुपो लुप् । उद्योतो रत्नादिप्रकाशः, प्रभा चन्द्रादिरुचिः, छाया शैत्यगुणा, आतपस्तपनबिम्बजोष्णप्रकाशरूप:, 'इति' शब्द आद्यर्थस्ततश्च सम्बन्धभेदादीनां परिग्रहः, वा समुच्चये तथा वर्ण: कृष्णादिः, रसस्तिक्तादिः, गन्धः सुरभिप्रभृतिः, स्पर्शः शीतादिरेषां द्वन्द्वः । पुद्गलानां स्कन्धादीनां तु पुनर्लक्षणं, एभिरेव तेषां लक्ष्यत्वादिति ।। १२ ।। द्रव्यलक्षणमुक्त्वा पर्यायलक्षणमाह - एगत्तं च पुहत्तं च, संखा संठाणमेव य । संजोगा य विभागा य, पज्जवाणं तु लक्खणं ।। १३ ।। व्याख्या - एकत्वं भिन्नेष्वपि परमाण्वादिषु यदेकोयं घटादिरिति प्रतीतिहेतुः, पृथक्त्वं च अयमस्मात्पृथगिति प्रत्ययनिमित्तं, सङ्ख्या य एको द्वौ त्रय इत्यादिका प्रतीतिर्जायते, संस्थानं परिमण्डलोयमित्यादि बुद्धिनिबन्धनं, एवः पूत, चः समुच्चये, संयोगा अयमङ्गल्योः संयोग Jain Education International For Personal & Private Use Only LETTTTTTTT STDOSTO मोक्षमार्गगतिनाम अष्टाविंश मध्ययनम् १०१४ www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy