SearchBrowseAboutContactDonate
Page Preview
Page 1055
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १०१३ धम्मो अहम्मो आगासं, दव्वं इक्किक्कमाहिअं । अणंताणि अ दव्वाणि, कालो पुग्गलजंतवो ।।८।। व्याख्या - धर्मः अधर्म आकाशं द्रव्यमेकैकमाख्यातं जिनैरिति शेषः, अनन्तानि च पुनर्द्रव्याणि काल: पुद्गलजन्तवश्च । कालस्य चानन्त्यमतीतानागतापेक्षयेति ।। ८ ।। द्रव्याणां लक्षणान्याह - गइलक्खणो उ धम्मो, अहम्मो ठाणलक्खणो । भायणं सव्वदव्वाणं, नहं ओगाहलक्खणं ।। ९ ।। व्याख्या गतिर्देशान्तरप्राप्तिः सा लक्षणमस्येति गतिलक्षणः, तु पूर्त्ती, धर्मो धर्मास्तिकायः । अधर्मोऽधर्मास्तिकायः स्थानं स्थितिस्तलक्षणः । अयं भावः स्वत एव गमनं प्रति प्रवृत्तानां जीवपुद्गलानां गत्युपष्टम्भकारी धर्मास्तिकायः, स्थितिपरिणतानां तु तेषां स्थितिक्रियोपकारी अधर्मास्तिकाय इति । भाजनमाधार:, सर्वद्रव्याणां नभः आकाशं, अवगाहोऽवकाशस्तल्लक्षणं । जीवादीनामवगाढुं प्रवृत्तानां अवकाशदमाकाशमिति भावः ।। ९ ।। वत्तणालक्खणो कालो, जीवो उवओगलक्खणो । नाणेणं दंसणेणं च, सुहेण य दुहेण य ।। १० ।। व्याख्या वर्त्तन्ते भवन्ति भावास्तेन तेन रूपेण तान्प्रति प्रयोजकत्वं वर्त्तना सा लक्षणमस्येति वर्त्तनालक्षण: कालो द्रुमादिपुष्पोद्भेदादिनैयत्यहेतुः । जीवो जन्तुरुपयोगो मतिज्ञानादिलक्षणमस्येत्युपयोगलक्षणः, अत एव ज्ञानेन विशेषग्राहिणा दर्शनेन च ॥ सामान्यविषयेण सुखेन दुःखेन च लक्ष्यत इति गम्यते ।। १० ।। अथ शिष्याणां दृढतर संस्कारार्थमुक्तं लक्षणमनूद्य लक्षणान्तरमाह - 11611 हो Jain Education International For Personal & Private Use Only || मोक्षमार्ग गतिनाम ॥६॥ अष्टाविंश मध्ययनम् १०१३ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy