SearchBrowseAboutContactDonate
Page Preview
Page 1054
Loading...
Download File
Download File
Page Text
________________ Isl उत्तराध्ययन सूत्रम् १०१२ Jel lell Poh liol 67 5 नवत्वपुराणत्वादीनां द्रव्यगुणावस्थाविशेषरूपाणां सर्वेषां केवलज्ञानापेक्षया चेह सर्वशब्दोपादानं, शेषज्ञानानां प्रतिनियतपर्यायग्राहित्वात् । 'नाणंति' ज्ञायतेऽनेनेति ज्ञानं अवबोधकं ज्ञानिभिरर्थात्केवलिभिर्देशितं कथितम् ।।५।। अनेन द्रव्यादिकं ज्ञानस्य विषय इत्युक्तं तत्र द्रव्यादिः किं लक्षणमित्याह - अष्टाविंश me मध्ययनम् llell गुणाणमासओ दव्वं, एगदव्वस्सिआ गुणा । लक्खणं पजवाणं तु, उभओ अस्सिआ भवे ।।६।। व्याख्या - गुणानामाश्रयो द्रव्यं, अनेन रूपादय एव वस्तु न तयतिरिक्तमन्यदस्तीति सुगतमतमपास्तं । तथा एकस्मिन् द्रव्ये आधारभूते ils Ish आश्रिताः स्थिता एकद्रव्याश्रिता गुणाः, एतेन तु ये द्रव्यमेवेच्छन्ति न तद्व्यतिरिक्तान् रूपादींस्तन्मतमवमतं । लक्षणं पर्यवाणां तु पुनः उभयोर्द्वयोः । ॥ प्रक्रमाद् द्रव्यगुणयोराश्रिताः भवेत्ति' भवेयुः ।।६।। गुणानामाश्रयो द्रव्यमित्युक्तं तत्र द्रव्यं कतिभेदमित्याह - धम्मो अहम्मो आगासं, "कालो "पोग्गल-जंतवो । एस लोगुत्ति पण्णत्तो, जिणेहिं वरदंसिहिं ।।७।। व्याख्या - धर्मो धर्मास्तिकाय:, अधर्मोऽधर्मास्तिकायः, आकाशमाकाशास्तिकायः, कालो अद्धा समयाद्यात्मकः, पुद्गलजन्तवः इति IMGll पुद्गलास्तिकायो जीवास्तिकायश्च, एतानि द्रव्याणि ज्ञेयानीत्यध्याहारः । अत्र प्रसङ्गाल्लोकस्वरूपमप्याह-एषोऽनन्तरोक्तद्रव्यसमूहो लोक इति का प्रज्ञप्तो जिनैर्वरदर्शिभिः ।।७।। धर्मादीन्येव द्रव्याणि भेदत आह - १०१२ lal Isl ||si For Personal Price Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy