________________
lol
||
सूत्रम् १०११
गतिनाम
मध्ययनम्
तपो बाह्याभ्यन्तरभेदभिन्नं जिनोक्तमेव । सर्वत्र चकारस्तथेति च समुच्चये, समुचयश्चेह समुदितानामेषां मुक्तिमार्गत्वख्यापकः । एष मार्ग इति का मोक्षमार्ग6 प्रज्ञप्तो जिनैर्वरदर्शिभिः । अत्र च चारित्रान्तर्गतत्वेऽपि तपसो भेदेनोपादानं अस्यैव कर्मक्षपणं प्रति परमकारणत्वसूचकमिति सूत्रार्थः ।।२।। अथास्यैवानुवादद्वारेण फलं दर्शयितुमाह -
अष्टाविंशनाणं च दंसणं चेव, चरित्तं च तवो तहा । एअं मग्गमणुपत्ता, जीवा गच्छंति सोग्गइं ।।३।।
व्याख्या - 'एअंति' एतमनन्तरोक्त मार्ग अनुप्राप्ता आश्रिता जीवा गच्छन्ति सुगतिं मुक्तिरूपामिति सूत्रार्थः ।।३।। ज्ञानादीन्येव Moll क्रमेणाभिधातुमाह -
तत्थ पंचविहं नाणं, सुअं आभिणिबोहि । ओहिणाणं च तइअं, मणनाणं च केवलं ।।४।।
व्याख्या - तत्र तेषु ज्ञानादिषु मध्ये पञ्चविधं पञ्चप्रकारं ज्ञानं, के ते पञ्चप्रकाराः ? इत्याह-श्रुतं श्रुतज्ञानं, आभिनिबोधिकं मतिज्ञानं, 6 अवधिज्ञानं तृतीयं, 'मणनाणंति' मन:पर्यायज्ञानं, चः समुचये भिन्नक्रमस्तत: केवलं चेति । आह-नन्द्यादौ मतिज्ञानानन्तरं श्रुतमुक्तं तदिहादौ डा कुतः श्रुतोपादानं ? उच्यते । शेषज्ञानानामपि स्वरूपज्ञानं प्रायः श्रुताधीनमिति तस्य प्राधान्यख्यापनार्थं पूर्व तदुपादानमिति सूत्रार्थः ।।४।। अथ ज्ञानस्य विषयमाह -
एअं पंचविहं नाणं, दव्वाण य गुणाण य । पजवाणं च सव्वेसिं, नाणं नाणीहिं देसि ।।५।। व्याख्या - एतत्पञ्चविधं ज्ञानं द्रव्याणां च जीवादीनां, गुणानां च सहभाविनां रूपादीनां, पर्यवाणां च क्रमभाविनां १०११
IST
Isll
all
s
For Personal Private Use Only
www.jaineibrary.org