________________
उत्तराध्ययन
सूत्रम्
१००८
अह सारही विचिंतेइ, खलुंकेहिं समागओ । किं मज्झ दुट्ठसीसेहिं, अप्पा मे अवसीअइ ।। १५ ।।
व्याख्या – अथेति पूर्वोक्तचिन्तानन्तरं सारथिरिव सारथिर्धर्मयानस्येति प्रक्रमः, गर्गाचार्यो विचिन्तयति, खलुङ्खैः कुशिष्यैः समागतः संयुक्तः किं ? न किञ्चिदित्यर्थः, मम प्रयोजनं सिध्यतीति शेषः, दुष्टशिष्यैः प्रक्रमात्प्रेरितैः केवलमात्मा मे ममाऽवसीदति, एतत्प्रेरणाव्यग्रतया स्वकार्यहानेस्ततो वरमेतत्त्यागत उद्यतविहारेण विहृतमिति भावः ।। १५ ।। अथ तत्प्रेरणान्तराले स्वकार्यमपि किं न क्रियते ? इत्याह -
जारिसा मम सीसा उ, तारिसा गलिगद्दहा । गलिगद्दहे चइत्ताणं, दढं पगिण्हई तवं ।। १६ ।।
व्याख्या - यादृशाः मम शिष्याः तुः पूरणे तादृशा गलिगद्दभा यदि परभवेयुरिति गम्यते, न त्वन्यः कोप्येषामौपम्यं लभते इति भावः गर्द्दभग्रहणमतिकुत्साख्यापकं, ते हि स्वरूपतोऽप्यतिप्रेरणयैव प्रवर्त्तन्ते, ततस्तत्प्रेरणयैव कालोऽतिक्रामति, न तु तदन्तरालसम्भव इति भावः । यतश्चैवमतो गलिगर्द्दभान् गलिगर्द्दभसन्निभान् दुश्शिष्यान् त्यक्त्वा दृढं बाढं प्रगृह्णाति गर्गाचार्यस्तपोऽनशनादीति । । १६ । । एतदेवाह -
Jain Education International
मिउ मद्दवसंपन्ने, गंभीरे सुसमाहिए । विहरइ महिं महप्पा, सीलभूएण अप्पणत्ति बेमि ।। १७ ।।
व्याख्या - मृदुर्बहिर्वृत्त्या विनयवान्, मार्द्दवसम्पन्नो मनसापि तादृश एव, गम्भीरोऽलब्धमध्यः, सुसमाहितः सुष्टुसमाधिमान्, विहरति महीं ॥
For Personal & Private Use Only
11
खलुङ्कीयनाम सप्तविंशमध्ययनम्
१००८
www.jainelibrary.org