________________
Meil llell llel
उत्तराध्ययनसूत्रम् ६३
Isil Toll
Isl
परिषहनाम
द्वितीयNell Mell मध्ययनम्
Isll
1ell llsil
ISIN
oll Isll ||७||
||6ll
Hell livall
ell
सौभाग्यमन्मथं तं च, तत्रस्थं तद्गृहेश्वरी । धनाढ्यवणिजो भार्या-ऽपश्यत्प्रोषितभर्तृका ।।१४।। अचिन्तयञ्च सा रूप-महो ! अस्य मनोहरम् । यद्दष्टमात्रमपि मे, समाकृषति मानसम् ।।१५।। तदमुं रमयित्वा स्वं, करोमि सफलं वयः । ध्यात्वेति प्राहिणोद्दासी, सा तदाह्वानहेतवे ।।१६।। दास्याहूतः सोऽपि तस्याः, मनसीव गृहेऽविशत् । सापि हर्षभरोदञ्च-त्कुचकुम्भा तमभ्यगात् ।।१७।। पप्रच्छ च स्मितोन्मिश्र-दन्तांशुद्योतिताधरा । समग्रसुभगोत्तंस !, किं याचति भवानिति ।।१८।। अथारहनकः स्माह, भिक्षामभ्यर्थये शुभे । ततः सा व्यमृशत्स्मेर-स्मरापस्मारविह्वला ।।१९।। वशीकरोम्यमुं स्निग्ध-मधुराहारदानतः । स्वादुभोज्यं हि सर्वेषां, वशीकरणमुत्तमम् ।।२०।। ध्यात्वेति सापर्यत्तस्मै, मोदकान् सुन्दरान् बहून् । सोऽपि पर्यटनग्लानः, प्राप्य तान् मुमुदे भृशम् ।। २१।। पश्यन्ती स्निग्धया दृष्ट्या, सा प्रपच्छेति तं पुनः । युवत्वेऽपि त्वया तीव्र, किमर्थं व्रतमाददे ।। २२।। मुनिरूचे मया दीक्षा, जग्रहे सौख्यहेतवे । सुधामधुरया वाचा, ततः सा पुनरब्रवीत् ।। २३ ।। यद्येवं तन्मया सार्द्ध, भुक्ष्व वैषयिकं सुखम् । पालिताया इयत्कालं, दीक्षायाः फलमाप्नुहि ।। २४ ।। कुरूपदुःस्थस्थविर-कर्कशाङ्गजनोचिताम् । इमां कष्टक्रियां मुञ्च, मुधा स्वं वञ्चयस्व मा ।। २५ ।। इदं गृहमियं लक्ष्मी-रयं परिजनोऽखिलः । सर्वमेतत्तवायत्तं, यदि त्वं स्वीकरोषि माम् ।। २६ ।।
IGll
||Gll
lioll
llell
||foll
||61 ||6ll
is
|| ||oll
|| ||Gll
||Gll
le lel
Nol
dan Education Intellona
For Personal & Private Use Only
HTwww.jainelibrary.org