SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् का परिषहनाम द्वितीयमध्ययनम् ६२ ||Gl अभूलक्ष्मीकुलागारं, नगरी तगराभिधा । दत्तप्रमोदस्तत्रासी-इत्तनामा वणिग्वरः ।।१।। स भद्राभार्यया साकं, भुञ्जानः सुखमुत्तमम् । अरहनकनामानं, पुत्ररत्नमजीजनत् ।।२।। धर्ममार्हतमाका -ऽर्हन्मित्राचार्यसन्निधौ । विरक्तो व्रतमादत्त, दत्तः पत्नीसुतान्वितः ।।३।। दत्तोऽरहनकं स्नेहा-दिष्टै ज्यैरपोषयत् । कदाचिदपि भिक्षार्थं, प्रेषयामास तं न तु ।। ४।। उत्तमर्ण इवानेन, किमयं पोष्यतेऽन्वहम् । समर्थोऽपि च किं भिक्षा-चर्यामेष न कार्यते ? ।।५।। ध्यायन्तोऽपीति निर्ग्रन्था, वक्तुं किमपि नाशकन् । पुत्रं वा पालयन् वप्ता, निषेद्धं केन शक्यते ? ।।६।। (युग्मम्) निदाघसमयेऽन्येद्यु-र्दत्तः साधुळपद्यत । तद्वियोगान्महादुःख-माससादाऽरहन्नकः ।।७।। ततोऽन्ये संयतास्तात-विरहातुरचेतसे । तस्मै द्वित्रान् दिनान् याव-दानीयाहारमार्पयन् ।।८।। अथ तं यतयोऽवोचन्, भिक्षार्थं पर्यट स्वयम् । नेदानीं पितृवत्कोऽपि, दास्यत्यानीय भोजनम् ।।९।। दग्धोपरिष्ठात् पिटको-पमां वाचं निशम्य ताम् । चचाल विमनाः सोऽथ, भिक्षायै मुनिभिः समम् ।।१०।। अतीवसुकुमाराङ्गः, पूर्वमप्यकृतश्रमः । तदा निदाघतापेन, पर्यभूयत सोऽधिकम् ।।११।। ग्रीष्मार्ककिरणोत्तप्त-रेणुकानिकरेण सः । अदह्यत पदो ढं, मौलौ च तपनांशुभिः ।।१२।। पश्चास्थितोऽन्यसाधुभ्य-स्तृषा शुष्यन्मुखाम्बुजः । महेभ्यसदनच्छायां, विश्रमाय स शिश्रिये ।।१३।। ||७|| ||७|| Joil LAT in Education in all For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy