SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सुत्रम द्वितीय llel IS Nell llo ||Gl Walll WO NEW all ||Gll उद्यानपार्श्ववृत्तेस्तु, वृक्षाद्याश्रयतोऽलगत् । शीतमल्पं ततो यामे, स विपन्नस्तृतीयके ।।१९।। 6 परिषहनाम आसीदल्पतरं शीतं, तुर्यस्य नगरोष्मणा । ततः स प्रहरे तुर्ये, परासुत्वमगान्मुनिः ।।२०।। चत्वारोऽपिप्राज्यधैर्या मुनीन्द्राः, स्वर्ग प्रापुस्ते विषह्येति शीतम् । इत्थं सर्वैः साधुभिस्त्यक्तकामै-स्तत्सोढव्यं मुक्तिसंयुक्तिकामैः ।।२१।। is मध्ययनम् ||७|| इति शीतपरीषहे साधुचतुष्ककथा ।।३।। इदानीं शीतविपक्षमुष्णमिति, यद्वा शीतकाले शीतं तदनु ग्रीष्मे उष्णमिति तत्परीषहमाह - उसिणप्परिआवेणं, परिदाहेण तज्जिए । प्रिंसु वा परिआवेणं, सायं णो परिदेवए ।।८।। व्याख्या - उष्णं उष्णस्पर्शयुक्तं भूरेणुशिलादि, तेन परिताप उष्णपरितापस्तेन, तथा परिदाहेन बहिः स्वेदमलाभ्यां वह्निना वा, अन्तश्च ॥ तृष्णोत्थदाहरूपेण तर्जितोऽत्यन्तपीडितः, तथा 'धिंसुवत्ति' ग्रीष्मे, वाशब्दात् शरदि वा परितापेन रविकिरणकृतेन तर्जित इत्यत्रापि योज्यम्, सातं ॥ ला सुखं प्रतीतिशेषः, नो परिदेवेत् 'हा ! कदा चन्द्रचन्दनझञ्झानिलादयः सुखहेतवो मम सम्पत्स्यन्ते' इति न प्रलपेदिति सूत्रार्थः ।।८।। उण्हाभितत्तो मेहावी, सिणाणं णोवि पत्थए । गायं णो परिसिंचेज्जा, ण वीएजा य अप्पयं ।।९।। व्याख्या - उष्णाभितप्तो मेधावी मर्यादावर्ती स्नानं जलाभिषेकं 'णोवि पत्थएत्ति' अपेभित्रक्रमत्वात् नो नैव प्रार्थयेदपि, अभिलषेदपि, कथं । पुनस्तत्कुर्यादितिभावः, तथा गात्रं देहं नो परिसिञ्चत् न सूक्ष्माम्बुबिन्दुभिरार्दीकुर्यात्, न वीजयेञ्च तालवृन्तादिभिः, अल्पकमपि, स्तोकमपि, SI i॥ किम्पुनर्बहुरिति सूत्रार्थः ।।९।। उदाहरणञ्चात्र, तथाहि - 116 Ill Isll lol Ner Jell ||Gl 161 Isll lain Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy