________________
उत्तराध्ययनसूत्रम् ६०
STATTTTTTT A FTI
DAOGA DAGADIZOST
Jain Education International
कल्पमेनं श्रयन्तस्ते, विहरन्तो धरातले । परेद्यवि पुरं राजगृहं पुनरुपाययुः || ६ ||
तदा च तुहिनव्यूहैः, पीडयन् जगतीजनम् । पत्रपुष्पफलोपेतान्, स्थाणून् कुर्वन् महीरुहान् ।। ७।। तटाकान्यपि सर्वाणि, स्त्यानयन्नाज्यवन्निशि । निरास्पदान् पक्षिपशु-श्वापदान् दारुतां नयन् ।।८।। शीतकम्प्रदरिद्राणां दन्तवाद्यं प्रवादयन् । कृशानुसेविनं कुर्वन् सर्वं श्रोत्रियवज्जनम् ।।९।। रुष्टानपि मिथोऽत्यर्थं, दम्पतीन् परिरम्भयन् । हेमन्तर्तुः प्रववृते विश्वं हेममयं सृजन् ।। १० ।। (चतुर्भिः कलापकम् ) हिमत्त तत्र वैभार-गिरेस्ते मुनयः पुरे । आहारार्थं समाजग्मुः, प्रहरेऽह्नस्तृतीयके ।।११।। कृताहाराश्च ते सर्वे, गन्तुं वैभारभूधरम् । पृथक् पृथग् न्यवर्त्तन्त, पुरमध्यान्महर्षयः ।। १२ । । वैभाराद्रिगुफाद्वारे, प्राप्तस्यैकस्य तेष्वथ । द्वितीयस्य पुरोद्याने, तृतीयस्य तदन्तिके ।। १३ ।।
तुर्यस्य तु पुरोपान्ते, चतुर्थ: प्रहरोभवत् । कायोत्सर्गं ततः कृत्वा, ते तत्रैवावतस्थिरे ।। १४ ।। (युग्मम् ) तेष्वद्रिकन्दराद्वार-संस्थितस्य तपस्विनः । उचैः स्थितत्वादलग-च्छीतमत्यन्तदारुणम् ।। १५ ।। पतत्तुहिनसम्पर्क - शीतलैः शैलमारुतैः । कायश्चकम्पे तस्योच्चैर्न किञ्चिदपि मानसम् ! ।। १६ ।। स शीतवेदनां सम्यक्, सहमानो महामुनिः । यामिन्याः प्रथमे यामे, परलोकमसाधयत् ।। १७ ।। उद्यानस्थस्य नीचैस्त्वाच्छीतमल्पं किमप्यभूत् । ततो रजन्याः प्रहरे, द्वितीये स व्यपद्यत ।। १८ ।।
For Personal & Private Use Only
5♠♠♠♠♠♠♠♠♠♠OST
परिषहनाम द्वितीय
मध्ययनम्
६०
www.jainelibrary.org