________________
उत्तराध्ययन
सूत्रम् ९९८
llell
Hell
॥७॥
पोरिसीए चउब्भाए, वंदित्ताण तओ गुरुं । पडिक्कमित्ता कालस्स, सिज्जं तु पडिलेहए ।। ३७ ।। व्याख्या - पौरुष्याः प्रक्रमाचतुर्थ्याश्चतुर्भागे शेषे इति शेषः, 'सिज्यंति' शय्यां वसतिम् ।।
पासवणुच्चारभूमिं च, पडिलेहिज्ज जयं जई । काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमोक्खणं ।। ३८ ।। व्याख्या - 'पासवणुच्चारभूमिं चत्ति' प्रश्रवणभूमिमुचारभूमिं च प्रत्येकं द्वादशस्थण्डिलात्मिकां चशब्दात्कालभूमिं च स्थण्डिलत्रयरूपां प्रतिलेखयेत्, यतमारम्भादुपरतं यथा स्यात्तथा यतिरिति सार्द्धसप्तदशसूत्रार्थः । इत्थं विशेषाद्दिनकृत्यमुक्त्वा रात्रिकृत्यं सार्द्धत्रयोदशसूत्रैराह काउस्सगमित्यादि-'तओत्ति' ततः प्रश्रवणादिभूमिप्रतिलेखनानन्तरम् ।। २१-३८ ।। कायोत्सर्गे स्थितश्च यत्कुर्यात्तदाह -
देसिअं च अईआरं, चिंतिज्ज अणुपुव्वसो । नाणे अ दंसणे चेव, चरित्तंमि तहेव य ।। ३९ ।।
व्याख्या – 'देसिअंति' सूत्रत्वादेवसिकं, अतिचारं चिन्तयेदानुपूर्व्या क्रमेण प्रातः प्रतिक्रमणे प्रथममुखवस्त्रिकाप्रत्युपेक्षणादारभ्यामुं कायोत्सर्ग यावदित्यर्थः । किं विषयमतिचारं चिन्तयेत् ? इत्याह- 'ज्ञाने चेत्यादि ।।
-
पारिअ काउस्सग्गो, वंदित्ताण तओ गुरुं । देसिअं तु अईआरं, आलोइज्ज जहक्कमं ।। ४० ।।
व्याख्या - पारितकायोत्सर्गो वन्दित्वा द्वादशावर्त्तवन्दनेन, ततः इत्यतिचारचिन्तनानन्तरं गुरुं दैवसिकं तुः पूर्त्तो, अतिचारम् ‘आलोचयेत्’ ॥ प्रकाशयेत् यथाक्रमम् ।।
१ नाणे चे इति हर्षप्रतो ।
Jain Education International
For Personal & Private Use Only
QQQQQQQQQQ♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠♠
सामाचारीनाम
षड्विंशमध्ययनम्
९९८
www.jninelibrary.org