SearchBrowseAboutContactDonate
Page Preview
Page 1035
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ९९३ వా వా వా వా వా ||७|| ॥ आरभडा सम्मद्दा, वज्जे अव्वा य मोसली तइआ । पप्फोडणा चउत्थी, विक्खित्ता वेइआ छट्ठा ।। २६।। व्याख्या - 'आरभडा' विपरीतकरणं, त्वरितमन्यान्यवस्त्रग्रहणरूपा वा । यदुक्तं - ""वितहकरणमारभडा, तुरिअं वा अन्नमन्नगहणेणंति” । समर्द्दनं समर्दा रूढित्वात् स्त्रीलिङ्गता, समर्दा नाम वस्त्रान्तकोणसंवलनं, उपधेर्वा उपरि उपवेशनं, वर्जयितव्येति सर्वत्र योज्यं । च: पूर्ती, 'मोसलित्ति' तिर्यगूर्ध्वमधो वा घट्टना, तृतीया । प्रस्फोटना प्रकर्षेण रेणुगुण्ठितस्येव वस्त्रस्य स्फोटना चतुर्थी । विक्षेपणं विक्षिप्ता पञ्चमी, स्त्रीत्वं प्राग्वत्, सा च प्रत्युपेक्षितवस्त्रस्याप्रत्युपेक्षिते प्रक्षेपणं, प्रत्युपेक्ष्यमाणो वा वस्त्राञ्चलं यदूर्ध्वं क्षिपति । वेदिका षष्ठी, सा च पञ्चविधा । यदाहुः - "वेइआ पंचविहा पणत्ता, तंजहा - उड्डवेइआ १ अहोवेइआ २ तिरिअवेइआ ३ दुहओ वेइआ ४ एगओ वेइआ ५ । तत्थ उड्डवेइआ उवरि जागाणं हत्थे काऊण पडिलेहेइ १ । अहोवेइआ अहो जाणुगाणं हत्थे काऊण पडिलेहेइ २ । तिरिअवेइआ संडासयाणं मज्झे हत्थे नेऊण पडिलेहेइ ३ । उभओ वेइआ बाहाणं अंतरे दोवि जाणुगा काऊण पडिलेहेइ ४ । एगओ वेइआ एगं जाणुगं बाहाणमंतरे काऊण पडिलेहेइत्ति ५ । " एवमेते षड् दोषाः त्याज्याः । । तथा पसिढिल - पलंब-लोला, एगामोसा अणेगरूवधुणा । कुणइ पमाणि पमायं, संकिए गणणोवगं कुज्जा ।। २७ ।। व्याख्या - प्रशिथिलं नाम दोषो यददृढम् अतिर्यगायतं वा वस्त्रं गृह्यते प्रलम्बो - यद्विषमग्रहणेन प्रत्युपेक्ष्यमाणवस्त्रकोणानां लम्बनं १ "वितयकरणं आरभटा, त्वरितं वा अन्यान्यग्रहणेन" । २ वस्त्रान्तः कोणसञ्चलनं इति श्रीनेमिचन्द्रीयावृत्ती, वस्त्रान्तकोणानां परस्परमेलनमिति च दीपिकायाम् । ३ वेदिका पञ्चविधा प्रज्ञप्ता, तद्यथा उर्ध्ववेदिका अधोवेदिका तिर्यग्वेदिक उभयतोवेदिका एकतोवेदिका, तत्रोर्ध्ववेदिका उपरि जानुनोर्हस्ती कृत्वा प्रतिलेखयति, अधोवेदिका अघो जान्वोर्हस्तौ कृत्वा प्रतिलेखयति, तिर्यग्वेदिका सन्देशकयोर्मध्ये हस्तेन गृहीत्वा प्रतिलेखायति, उभयतोवेदिका बाह्योरन्तरे द्वे अपि जानुनी कृत्वा प्रतिलेखयति, एकतोवेदिका एक जानु बाह्योरन्तरे कृत्वा प्रतिलेखयति" । Jain Education International For Personal & Private Use Only SATT सामाचारीनाम षड्विंशमध्ययनम् ९९३ www.jainlibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy