________________
उत्तराध्ययन
सूत्रम्
९८५
TOTTTT
प्रतिप्रच्छना ४ कृत्वा च भिक्षाटनं नात्मम्भरिणा भाव्यं, किन्तु शेषमुनीनां निमन्त्रणारूपा छन्दना कार्येति तदनु छन्दना ५ तत्रापि इच्छाकार एव प्रयोक्तव्य इति तदनु सः ६ इत्थं क्रियमाणेऽपि कथञ्चिदतिचारसम्भवे मिथ्यादुष्कृतं कार्यमिति तदनु मिथ्याकारम् ७ महति चापराधे गुरोरालोचिते गुरुवचनं तथेति स्वीकार्यमिति तत्पृष्ठतस्तथाकारः ।। ८ ।। तथेति स्वीकृत्य च सर्वकृत्येषूद्यमः कार्य इति तदनु अभ्युत्थानम् ।। ९ ।। उद्यमवता च ज्ञानाद्यर्थं गणान्तरेऽपि गत्वोपसम्पद्ग्राह्येति तदनु उपसम्पदुक्तेति सूत्रत्रयार्थः ।। २-३-४ ।। एनामेव विषयविभागेनोपदर्शयितुमाह
गमणे आवस्सि कुज्जा, ठाणे कुज्जा णिसीहिअं । आपुच्छणा सयं करणे, परकरणे पडिपुच्छणा ।। ५ ।।
व्याख्या - गमने तथाविधहेतुना बहिर्निस्सरणे, आवश्यकेषु अवश्यकर्त्तव्यव्यापारेषु भवा आवश्यकी तां कुर्यात् । स्थाने उपाश्रयादौ प्रविशन्निति शेषः कुर्यात् नैषेधिकीं गमनादिनिषेधरूपां । आप्रच्छना इदमहं कुर्यां न वेत्यादिरूपां स्वयम् - आत्मनः करणं कस्यापि कार्यस्य निर्वर्त्तनं स्वयं करणं तस्मिन्कार्येति शेषः । तथा परकरणे अन्यकार्यविधाने प्रतिप्रच्छना, गुरुनियुक्तोऽपि हि पुनः प्रवृत्तिकाले पृच्छत्येव गुरुं इह च स्वकृत्यपरकृत्ययोरुपलक्षणत्वात्सामान्येन स्वपरस्वम्बन्धिषु सर्वकार्येष्वपि प्रथमतो गुरूणां प्रच्छनमापृच्छा गुरुनियुक्तेनापि प्रवृत्तिकाले भूयस्तत्प्रच्छनं प्रतिपृच्छेति ज्ञेयं । आह च निर्युक्तिकृत् - "आपुच्छणा उ कज्जे पुव्वनिउत्तेण होइ पडिपुच्छत्ति" ।।
Jain Education International
-
छंदणा दव्वजाएणं, इच्छाकारो अ सारणे । मिच्छाकारो अ निंदाए, तहक्कारो पडिस्सुए ।। ६ ॥
व्याख्या - छन्दना शेषमुनिनिमन्त्रणा द्रव्यजातेन द्रव्यविशेषेण पूर्वगृहीतेनेति गम्यते, उक्तं च "पुव्वगहिएण छंदणत्ति" । इच्छया
For Personal & Private Use Only
सामाचारीनाम
षड्विंशमध्ययनम्
९८५
www.jainelibrary.org