________________
उत्तराध्ययन सूत्रम्
९८४
।। अथ सामाचारीनाम षड्विंशमध्ययनम् ।।
।। ॐ ।। उक्तं पञ्चविंशमध्ययनं अथ सामाचारीसञ्ज्ञं षड्विंशमारभ्यते अस्य चायं सम्बन्धोऽनन्तराध्ययने ब्रह्मगुणा उक्ताः ते च यतेरेव स्युः, तेन चावश्यं सामाचारी समाचरणीया, सा चास्मिन्नुच्यत इत्येवं सम्बन्धस्यास्येदमादिसूत्रम् -
सामायारी पवक्खामि सव्वदुक्खविमोक्खणिं । जं चरित्ता ण निग्गंथा, तिण्णा संसारसागरं । । १ । ।
व्याख्या - सामाचारी साधुजनकर्त्तव्यरूपां 'जं चरित्ता णत्ति' यां चरित्वा आसेव्य 'तिण्णत्ति' तीर्णाः, उपलक्षणत्वात्तरन्ति तरिष्यन्ति चेति सूत्रावयवार्थ:, शेषं स्पष्टमेवमग्रेऽपि ज्ञेयम् ।। १ ।। यथाप्रतिज्ञातमाह -
पढमा आवस्सिआ नाम १, बिइआ य निसीहिआ २ । आपुच्छणा य तइआ ३, चउत्थी पडिपुच्छणा ४ ।। २ ।। पंचमी छंदणा नामं ५, इच्छाकारो अ छट्टओ ६ । सत्तमो मिच्छकारो उ ७, तह क्कारो अ ८ अट्ठमो || ३ ||
अभूद्वाणं नवमं ९, दसमी उवसंपया १० । एसा दसंगा साहूणं, सामायारी पवेइआ ।। ४ ।।
व्याख्या - व्रतादारभ्य विना कारणं गुरोरवग्रहे न स्थेयमाशातनाशङ्कातः, किन्तु ततो निर्गन्तव्यं, न चावश्यक विना निर्गमनमिति प्रथमाssवश्यकी १ निर्गत्य चावस्थानस्थाने नैषेधिकी गमनादिनिषेधरूपा कार्येति तदनु नैषेधिकी २ तत्र च तिष्ठता भिक्षाटनादिकार्योत्पत्तौ गुरूनापृच्छयैव प्रवर्त्तितव्यमिति तदनन्तरमाऽऽप्रच्छना ३ तस्यां च कृतायां गुरुनियुक्तेनाऽपि प्रवृत्तिकाले पुनः प्रष्टव्या एव गुरवः इति तत्पृष्ठतः ॥
Jain Education International
SSSSSSS
For Personal & Private Use Only
! सामाचारीनाम
षड्विंश
मध्ययनम्
OTEESE
९८४
www.jninelibrary.org