________________
उत्तराध्ययन
सूत्रम्
९७५
lal
तस्सक्खेवपमुक्खं च, अचयंतो तहिं दिओ । सपरिसो पंजली होउं, पुच्छई तं महामुणिं ।। १३ ।।
व्याख्या - तस्य यतेराक्षेपस्य प्रश्नस्य प्रमोक्षः प्रतिवचनं, चः पूरणे, दातुमिति शेषः 'अचयंतोत्ति' अशक्नुवन् तस्मिन् यज्ञे द्विजः सपर्षत् सभान्वितः प्राञ्जलिर्भूत्वा पृच्छति तं महामुनिम् ।। किम् ? इत्याह -
वेणं च मुहं बूहि, बूहि जण्णाण जं मुहं । नक्खत्ताण मुहं बूहि, बूहि धम्माण वा मुहं ।। १४ ।।
जे समत्था समुद्धतुं परमप्पाणमेव य । एवं मे संसयं सव्वं, साहू कहसु पुच्छिओ ।। १५ ।। व्याख्या – (स्पष्टे नवरम्) 'संसयंति' संशयविषयं वेदमुखादीति सूत्रदशकार्थः ।। ६-१५ ।। मुनिराह - अग्गिहोत्तमुहा वेआ, जण्णट्ठी वेअसां मुहं । नक्खत्ताण मुहं चंदो, धम्माणं कासवो मुहं ।। १६ ।।
व्याख्या - अग्निहोत्रं-अग्निकारिका, सा चेह "कर्मेन्धनं समाश्रित्य, दृढा सद्भावनाहुतिः । धर्मध्यानाग्निना कार्या, दीक्षितेनाग्निकारिका ।।१।।” इत्यादिरूपा गृह्यते, तदेव मुखं प्रधानं येषां ते अग्निहोत्रमुखा वेदाः, वेदानां हि दन इव नवनीतमारण्यकं प्रधानं, तत्र च “सत्यं तपश्च सन्तोष:, क्षमा चारित्रमार्जवम् । श्रद्धा धृतिरहिंसा च संवरश्च तथापरः ।। " इति दशप्रकार एव धर्मः प्रोचे । तदनुसारि चोक्तरूपमेवाग्रिहोत्रमिति । तथा यज्ञो भावयज्ञः संयमरूपस्तदर्थी वेदसां यागानां मुखमुपायः, यज्ञा हि सत्येव यज्ञार्थिनि प्रवर्त्तन्ते । नक्षत्राणां
Jain Education International
For Personal & Private Use Only
ZTTTTTT
यशीयनाम पञ्चविंशमध्ययनम्
९७५
www.jainelibrary.org