________________
उत्तराध्ययनसूत्रम्
९७३
STATTOODD
अह से तत्थ अणगारे, मासक्खमणपारणे । विजयघोसस्स जण्णंमि, भिक्खमट्ठा उवट्ठिए ।। ५ ।
व्याख्या- 'भिक्खमट्टत्ति' मोऽलाक्षणिकस्ततो भिक्षार्थमिति सूत्रद्वयार्थ: ।। ४-५ ।। तत्र च यदसौ याजकश्चक्रे तदाहअंहिं तं जायगो पडिसेहए । न हु दाहामु ते भिक्खं, भिक्खू जायाहि अन्नओ ।। ६ ।। व्याख्या - समुपस्थितं भिक्षार्थमागतं सन्तं तं संयतं 'तहिं' तत्र याजको यज्वाऽजातप्रत्यभिज्ञो विजयघोष एव प्रतिषेधति 'न हुत्ति' नैव दास्यामि ते तुभ्यं भिक्षां हे भिक्षो ! 'जायाहिति' याचस्व अन्यतो अन्यस्मात् ।। कुतः ? इत्याह -
अवेअवि विप्पा, जण्णट्ठा य जे दिआ । जोइसंगविऊ जे अ, जे अ धम्माण पारगा ।।७।।
व्याख्या - ये च वेदविदो विप्रा जातितो यज्ञार्थाश्च यज्ञप्रयोजना ये तत्रैव व्याप्रियन्ते, द्विजाः संस्कारापेक्षया द्वितीयजन्मानः ज्योतिषं चज्योतिःशास्त्रं, अङ्गानि च शिक्षादीनि विदन्ति ये ते ज्योतिषाङ्गविदः इहाङ्गत्वेऽपि ज्योतिषः पृथक् ग्रहणं प्राधान्यख्यापकं । ये च धर्माणां धर्मशास्त्राणां पारगाः । अशेषविद्यास्थानोपलक्षणमिदम् ।।
जे समत्था समुद्धतुं परमप्पाणमेव य । तेसिं अन्नमिणं देयं, भो भिक्खू सव्वकामिअं ।। ८ ।।
व्याख्या - ये समर्थाः समुद्धर्तुं भवाब्धेरिति गम्यं, 'सव्वकामिअंति' सर्वाणि काम्यानि अभिलषणीयवस्तूनि यत्र तत्काम्यं, षट्रसोपेतमित्यर्थः ।। एवं तेनोक्तो मुनिः कीदृग् जातः, किञ्चकारेत्याह -
Jain Education International
For Personal & Private Use Only
వాతావా లె తాలో
यशीयनाम पञ्चविंश
मध्ययनम्
९७३
www.jainelibrary.org