SearchBrowseAboutContactDonate
Page Preview
Page 1013
Loading...
Download File
Download File
Page Text
________________ IN उत्तराध्ययन सूत्रम् यशीयनाम पञ्चविंशमध्ययनम् ९७१ Mal ।। अथ यशीयनाम पञ्चविंशमध्ययनम् ।। ।। ॐ।। उक्तं चतुर्विशमध्ययनमथ यज्ञीयाख्यं पञ्चविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने प्रवचनमातर उक्तास्ताश्च ब्रह्मगुणस्थितस्यैव तत्त्वतो भवन्तीति जयघोषविजयघोषचरितवर्णनद्वारा ब्रह्मगुणा इहोच्यन्ते, इति सम्बन्धस्यास्य प्रस्तावनार्थं Jell जयघोषकथालेशो लिख्यते । तथाहि - वाराणस्यामभूतां द्वौ, द्विजो युग्मजसोदरौ । काश्यपौ जयघोषाख्य-विजयघोषसज्ञको ।।१।। lal जयघोषोऽन्यदा स्नातुं, गतो गङ्गां व्यलोकत । सर्पमेकं मुखोपात्त-रटन्मण्डूकभक्षकम् ।।२।। ||sl Isoll गृहीत्वा स भुजङ्गोऽपि, क्षणात्कुररपक्षिणा । उत्क्षिप्याधिक्षिति क्षिप्तः, प्रारेभे भक्षितुं द्रुतम् ।।३।। lol तेन सन्दंशदेशीय-त्रोटिनोटितविग्रहम् । भक्ष्यमाणोऽप्यहि कं, रटन्तं तं जघास सः ।। ४।। तं च प्रेक्ष्य मिथोग्रासं, जयघोषो व्यचिन्तयत् । अहो ! भवस्य काप्येषा, स्थितिरस्थितसुस्थता ।।५।। यो हि यस्मै प्रभवति, 'ग्रसते तं स मीनवत् । न तु गोपायति स्वीय-शक्तिं कोऽपि न दीनवत् ।।६।। कृतान्तस्तु महाशक्ति-रिति स ग्रसतेऽखिलम् । तदसारेऽत्र संसारे, का नामास्था मनीषिणाम् ? ।।७।। किञ्चेह धर्मएवैकः, सर्वोपद्रवनाशकः । श्रयामि तत्तमेवाहं, कामितार्थसुरद्रुमम् ।।८।। १. स तं प्रसति मीनवत् । इति 'य' पुस्तके ।। २. रिति सर्व ग्रसत्यहो ।इति 'ध' पुस्तके ।। leel 16l JainEducation international For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy