________________
सूत्रम् ९६८
स्थण्डिले उच्चारादीनि व्युत्सृजेत् परिष्ठापयेत् । पुनरुचारादि कथनं विस्मरणशीलानुग्रहार्थमिति सूत्रचतुष्कार्थः ।। १५-१८ ।। अथोक्तार्थोपसंहारपूर्व प्रवचनमात6 वक्ष्यमाणार्थसम्बन्धार्थमाह -
नाम एआओ पंच समिईओ, समासेण विआहिआ । इत्तो य तओ गुत्तीओ, वोच्छामि अणुपुव्वसो ।।१९।।
चतुर्विंश
मध्ययनम् व्याख्या – 'विआहिअत्ति' व्याख्याताः 'इत्तो अत्ति' इतश्च 'तओत्ति' तिस्रः 'अणुपुव्वसोत्ति' आनुपूर्व्यति सूत्रार्थः ।। तत्राद्यामाह - 'सञ्चा तहेव मोसा' य, सञ्चमोसा तहेव य । चउत्थी असञ्चमोसा अ, मणगुत्तीओ चउब्विहा ।।२०।।
व्याख्या - सत्पदार्थचिन्तनरूपो मनोयोगः सत्यः, तद्विषया मनोगुप्तिरप्युपचारात् सत्या । एवमन्या अपि ।। अस्या एव स्वरूपं । MSL निरूपयन्नुपदेष्टुमाह -
संरंभसमारंभे आरंभे य तहेव य । मणं पवत्तमाणं तु, निअत्तिज जयं जई ।।२१।।
व्याख्या - संरम्भः सङ्कल्पः, स च मानसस्तथाऽहं ध्यास्यामि यथाऽसौ मरिष्यतीत्येवंविधः, समारम्भ:-परपीडाकरोचाटनादिनिमित्तं ध्यानं, I is अनयो: समाहारस्तस्मिन् । आरम्भे परमारणक्षमाशुभध्यानरूपे च: समुञ्चये, तथैव तेनैवागमोक्तप्रकारेण मनः प्रवर्त्तमानं, तुः विशेषणे, निवर्तयेत् ।
यतमानो यतिः । विशेषश्चार्य-शुभसङ्कल्पेषु मनः प्रवर्त्तयेदिति ।। वाग्गुप्तिमाह -
९६८
liall
lil
in Education
For Personal Private Use Only