SearchBrowseAboutContactDonate
Page Preview
Page 1007
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ९६५ PEPPE ॥ प्रवचनमातृ एआई अट्ठ ठाणाई, परिवज्जित्तु संजये । असावज्ज मिअं काले, भासं भासिज्ज पण्णवं ।। १० ।। नाम व्याख्या - क्रोधाद्युपयुक्ततायां हि प्रायः शुभा भाषा न सम्भवतीति एतानि अनन्तरोक्तानि क्रोधादिन्यष्टस्थानानि परिवर्ज्य संयतः, असावद्यां ॥ निर्दोषां, मितां परिमितां, काले प्रस्तावे इति सूत्रद्वयार्थः । । ९-१० । । एषणासमितिमाह - ॥6॥ चतुर्विंश मध्ययनम् गवेसणाए गहणे अ, परिभोगेसणा य जा । आहारोवहिसेज्जाए, एए तिण्णि विसोहए ।। ११ । । व्याख्या - गवेषणायाम् अन्वेषणायां ग्रहणे स्वीकारे उभयत्र एषणेति सम्बध्यते, ततो गवेषणायामेषणा, ग्रहणे च एषणा, परिभोगेषणा च या, 'आहारोवहिसेज्जाएत्ति' वचनव्यत्यायादाहारोपधिशय्यासु 'एएत्ति' लिङ्गव्यत्ययादेतास्तिस्र एषणा विशोधयेत् निर्दोषाः कुर्यात् ।। कथं विशोधयेत् ? इत्याह - उग्गमुपायणं पढमे, बीए सोहिज्ज एसणं । परिभोगंमि चउक्कं, विसोहिज्ज जयं जई ।। १२ ।। व्याख्या- 'उग्गमुप्पायणंति' उद्गमोत्पादनादोषान् 'पढमेत्ति' प्रथमायां गवेषणायां शोधयेदिति योगः । तत्रोद्गमदोषा-आधाकर्मादयः षोडश, उत्पादनादोषा अपि धात्र्यादयस्तावन्त एवेति । 'बीएत्ति' द्वितीयायां ग्रहणैषणायां शोधयेत्, 'एसणंति' एषणादोषान् शङ्कितादीन् दश, || परिभोगंमित्ति' परिभोगैषणायां चतुष्कं 'संयोजनाऽ 'प्रमाणा ङ्गार धूमकारणरूपं", अङ्गारधूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात्, विशोधयेत् ॥ जयंति ' यतमानो यतिः । पुनः क्रियाभिधानमतिशयसूचकमिति सूत्रद्वयार्थः । । ११-१२ । । आदाननिक्षेपसमितिमाह ॥६॥ Jain Education International For Personal & Private Use Only TTTTTTT ९६५ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy