________________
उत्तराध्ययन
सूत्रम्
९६३
PEOP
समितिशब्दवाच्यत्वमस्तीत्येवमुपन्यासः । यत्तु भेदेनोपादानं तत्समितीनां प्रवृत्तिरूपत्वेन गुप्तीनां तु प्रवृत्तिनिवृत्तिरूपत्वेन कथञ्चिद्भेद इति ख्यापनार्थम् । द्वादशाङ्गं जिनाख्यातं 'मायंति' उत्तरतुशब्दस्यैवकारार्थस्येह योगान्मातमेव यत्र यासु प्रवचनं । तथा हि-सर्वा अप्येताश्चारित्ररूपाश्चारित्रं च ज्ञानदर्शनाविनाभावि, न चैतत्त्रयातिरिक्तमन्यदर्थतो द्वादशाङ्गमस्तीत्येतासु प्रवचनं मातमित्युच्यते । इति सूत्रत्रयार्थः, शेषं सुगमत्वान्न व्याख्यातमेवमग्रेऽपि ज्ञेयम् ।।१-२-३ ।। तत्रेर्यासमिति स्वरूपमाह -
आलंबणेण कालेण, मग्गेण जयणाइ अ । चउकारणपरिसुद्धं, संजये इरिअं रिए || ४ ||
व्याख्या - आलम्बनेन कालेन मार्गेण यतनया च, एभिश्चतुभिः कारणैः परिशुद्धां संयत ईर्यां गतिं रीयेत कुर्यात् ।। आलम्बनादीन्येव व्याख्याति -
Jain Education International
వాతా లో టైట్
तत्थ आलंबणं नाणं, दंसणं चरणं तहा । काले अ दिवसे वृत्ते, मग्गे उप्पहवज्जिए ।। ५ ।।
व्याख्या - तत्र तेषु - आलम्बनादिषु मध्ये यदालम्ब्य गमनमनुज्ञायते तदालम्बनं ज्ञानादि । तत्र ज्ञानं सूत्रार्थोभयरूप आगमः, दर्शनं सम्यक्त्वं चरणं चारित्रं तथाशब्दो द्वित्र्यादिसंयोगभङ्गकसूचकस्ततः प्रत्येकं ज्ञानादीन्याश्रित्य द्विकादिसंयोगेन या गमनमनुज्ञातं, ज्ञानाद्यालम्बनं विना तु तत्रानुज्ञातम् । कालश्च प्रस्तावादीर्याविषयो दिवस उक्तो जिनैः, रात्रौ हि चक्षुर्विषयताभावात्पुष्टालम्बनं विना गमनं नानुज्ञातम् । मार्ग ॥॥ इह सामान्येन पन्थाः, स चोत्पथेन उन्मार्गेण वर्जित उत्पथवर्जित उक्त इति योगः, उत्पथे हि व्रजत आत्मविराधनादयो दोषाः । अथ ॥७॥ यतनामाह -
For Personal & Private Use Only
प्रवचनमातृ
नाम
चतुर्विंश -
||७|| मध्ययनम्
11011
॥७॥
९६३
www.jainlibrary.org