________________
नवपदवृत्ति: मू. देव. वृ. यशो
॥७६॥
शिरस्तुण्डमुण्डनमपि व्रतिनां शास्त्रोक्तमनुपालयतां भूषणं, न दूषणं यच्च यत्र त्रिपुरुषपूजा न समस्ती' त्याद्युक्तं तत्र विवक्षितत्रिपुरुषीपू (जा पू) जैव न भवति, रागाद्यनुगतत्वादितरपुरषवद्, रागाद्यनुगतत्वं चाङ्गनादिपरिग्रहादिलिङ्गान्यथानुपपत्तेः, तथा चोक्तम्- " कश्चिद्रागी भवति हसितोद्गीतनृत्यप्रपञ्चः, प्रद्वेष्ट्यन्यः प्रहरणगणव्यग्रपाणिः पुमान् यः । बिभ्रन्मोही स्फटिकविमलामक्षमालां यतस्ते, तल्लिङ्गानामभवनमतः सर्ववित्वं विरागः ॥१॥।” हविर्भुजो हवनमपि प्राणातिपातकारणत्वान्न सुन्दरं, प्राणातिपातकारणत्वं चास्य भवदागमे हविर्भुजः शूनापञ्चकमध्ये पठितत्वाद्, यथोक्तम्-“ कण्डनी पेषणी चुल्ली, उदकुम्भः प्रमार्जनी । पञ्च शूना गृहस्थस्य, तेन स्वर्गं न यात्यसौ ॥ १॥" न च हिंसानुगतमप्येतद्विहितानुष्ठानत्वात्स्वर्गायेति वचनीयं, यदाह व्यास:-‘यूपं छित्त्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्गे, नरके केन गम्यते ? ॥१॥” दानं च यन्मोक्षार्थिभिर्दीयते तत्पात्रमन्विष्य देयं नैवमेव, पात्रं च विषयविरक्तत्वादिगुणोपेतं श्लाध्यते, तस्यैव संसारसागरपतज्जनरक्षणक्षमत्वात्, तथा चोक्तम्"विषयी विषयासक्तं, सधनः सधनं गृही गृहिणमेव । सारम्भः सारम्भं, न तुल्यदोषस्तु तारयति ॥ १ ॥ विषयी विषयविरक्तं, सधनोऽसधनं गृही गृहविमुक्तम् । सारम्भोऽनारम्भं, संचिन्त्य भवार्णवं तरति ॥ २ ॥ " एते च विषयविषपूर्णमानसाः कथं पात्रभृता भवन्ति ? इत्याहतप्रत्याहत्या यावदसौ मध्येसभं निरुत्तरीकृतस्तावत्साधुजनस्योपरि महान्तं प्रद्वेषं गतः, ततो रात्रावाकृष्टखड्गः समागतो मुनिहननार्थं, स्तम्भितो देवतया, प्रभाते च तदाश्चर्यमालोक्य राजा लोकश्च मुनिसमीपसमाकर्णितधर्माधर्मफल: समुपशान्तोऽङ्गीकृतवान् जिनधर्मं, नमुचिस्तु तथाऽपमानितो विलक्षीभूतो गतो हस्तिनागपुरं, महापद्मस्य मन्त्री जातः, तस्य च तदा सिंहबलनामा दुष्टसामन्तो विषमदुर्गबलेन देशमुपद्रवति, ततो महापद्येन पृष्टो नमुचि:, यथा-जानासि कमप्युपायं सिंहबलग्रहणे ?, नमुचिनोक्तं- सुष्ठु जानामि, ततो गत्वा तद्देशं निपुणोपायेन भङ्क्त्वा दुर्ग सिंहबलं च गृहीत्वा समागतो नमुचिः, अतितुष्टेन राज्ञा वरं वृणीष्वेत्युक्तोऽब्रवीन्मन्त्री-यदा याचिष्ये तदा दद्याः, एवं च यौवराज्यमनुपालयति महापद्मः, कदाचित्तदीयमात्रा ज्वालया कारितो जिनरथः, अन्यया च लक्ष्म्यभिधानया विमात्रा बह्यरथः, तयोश्चान्योऽन्यं विवादे प्रथमरथभ्रमणविषये समुत्पन्ने पद्मोत्तरेण नरपतिना द्वयोरपि निवारितौ रथौ, ततो महापद्मकुमारस्तमेवापमानं मन्यमानो निजमातुर्गतोऽकथयन्नेव महाटवीं, तत्र स्थित्वा तापसाश्रमे कानिचिद्दिनानि जनमेजयनरपते: पुत्रिकायां नागवतीकुक्ष्युत्पन्नायां मदनावल्यां कालनरेन्द्रेण सह युद्धे समापतिते निजपितुः पलायिते दिशो दिशमन्तः पुरादिपरिकरे भयेन तत्रैव तापसाश्रमे समागतायां प्रथमदर्शन एव दर्शितानुरागायां जातानुरागः कुलपतिना विसर्जितो गच्छन् प्राप्त: सिन्धुनन्दनपुरम्, तत्रोद्यानिकामहोत्सवे मदोन्मत्तमहाकरिणो
For Personal & Private Use Only
Jain Education Mternational
विष्णु
कुमार
वृत्तांत
॥७६॥
www.athelibrary.org