SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ नवपद- Kामाच्य क्रीडानगरनाराजा समा विमोच्य क्रीडन्तं नगरनारीजनं समानिनायालानस्तम्भमेतं महाकरिणं, विज्ञातव्यतिकरोऽसौ राज्ञा तत्रत्येन परिणायित: कन्याशतं, मनसा च समुद्वहति । वृत्ति:मू.देव. सदैव मदनावली, तिष्ठंश्च विशिष्ठसौख्येन अन्यदा रात्रौ सुप्तोऽपहृतो विद्याधराङ्गनया वेगवत्या, निद्रावसानावोदितापहारकारणयावत्तदा (च तया) वृ. यशो नीतोऽसौ वैताढ्यपर्वते सूरोदयं नगरं, समर्पित इन्द्रधनुर्नाम्नो विद्याधराधिपतः, परिणायितस्तेन स्वभार्याया: श्रीकान्ताया: सुतां जयकान्तां, तत्परिणयनोपजातकोपावागतौ ॥७७॥ च गङ्गाधरमहीधरौ तदीयमातुलभ्रातरौ प्रवरविद्याधरौ विजित्य सङ्गरे क्रमेण समुपार्जितसमस्तविद्याधराधिपत्यो वशीचकार वैताढ्यश्रेणिद्वयं, न च परितोषं कमप्युवाह मदनावलीविरहित:, अन्यदा च जगाम केनापि मिषेण तमेव तापसाश्रमं, तत्र तापसै: प्रवरपुष्पफलादिभिर्विहितोऽस्य सन्मानः, दत्ता च तत्रैवागतेनामुष्य मदनावली शतधनुःपुत्रेण जनमेजयेन, परिणीता च महाप्रमोदमुद्वहताऽनेन सा, ततो महाविभूत्या विद्याधरचक्रवर्तिसमृद्धिसमेतो गतो हस्तिनागपुरं, प्रविष्टो बन्दिजनस्तूयमानः, आनन्दितवांश्च प्रणामाधुचितप्रतिपत्तिकरणेन चिरवियोगदूनमानसौ जननीजनको विष्णुकुमारं च, अत्रान्तरे समवसृतः स एव मुनिसुव्रतस्वामिशिष्य: सुव्रताचार्यो य: कुलगहं क्षमाङ्गनाया: नन्दनवनं मार्दवसुरतरोर्निधानमार्जवधना-स्यालम्बनं मुक्तिवल्ल्या : क्रीडागृहं तप:श्रिय: स्वामी संयमसेवकस्य सहाय: सत्यबन्धोः पारिजातप्रसव: शौचकिंजल्कस्य पणितभूमिराकिञ्चन्यपण्यस्य यौवनं ब्रह्मचर्यमण्डनस्य, तस्य च निजोद्यानपालकादवगम्यागमनं नरपति: सपरिवार: समं विष्णुकुमारमहापद्माभ्यां वन्दनार्थमाययौ, तत्स्थानप्राप्तेन च करकमलकालतया मुखवस्त्रिकया मकरध्वजविजयगृहीतजयपताकयेव मुखदेशविनिवेशितया विराजमानो दक्षिणपार्श्वभागस्थापितेन रजोहरणेन शोभमानो विरचितपद्मासन: सूरिरभिवन्दितस्त्रि: प्रदक्षिणीकृत्य सपरिवारेण नरपतिना, सूरिणाऽप्यानन्दित: पापमलपटलप्रक्षालनजलेन धर्मलाभेन, समुपविष्टो नृपतिर्यथोचितस्थाने, भणितं च भगवता-भो भव्याः! दुरन्त: खल्वेष: जन्मजरामरणरौद्रजलजन्तुभीषण: शारीरमानसानेकदुःखसङ्घातानर्वाक्परपार-नीरपरिपूर्णश्चतुर्गतिमहाव-भीमो | मनोदुष्पवनप्रेरणाविषयावर्त्तघूर्णमानचटुलेन्द्रिययानपात्र: संसारसागरसमुद्रमध्यपतितरत्नमिव दुष्प्रापमत्र मानुषत्वं, विषमिव विपाककटुकं विषयसुखं, वीचय इव निरन्तरा: प्रसरन्ति कमपरिणतयः, नक्रादिक्रूरजलचरा एव समुच्छलन्ति भयावह । रागद्वेषादयः, गम्भीरपातालमिवातीवदुःखबहुलं श्रूयते नरकजालं, वडवानल इव बहलदाहहेतु: प्रवर्द्धते कषायदहनः, विषकन्दल्य इव विवशं जनं विदधति स्त्रिय:, तस्मादेतत्तरणवाञ्छया विधीयतां विविधव्रतफलकनिवहनिबद्धे ज्ञानकर्णधारविराजिते सम्यक्त्वकूपस्तम्भशोभिते प्रशस्ताध्यसायवायुपरि-पूर्णविविधतपोऽनुष्ठानसितपटकलिते परतीरवर्तिपरमगतिपुरीनिवासार्थिमुनिजनवणिक्सार्थपरिकरिते परमगुरुप्रणीते सद्धर्मयानपात्रे यत्नः, अपिच-अत्र चतुर्दशरज्ज्वात्मकेऽत्र लोके जनस्य संवसत: । अस्ति न कुत्रापि सुखं विमन्य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy