________________
नवपदवृत्ति:मू.देव. वृ. यशो ॥७५॥
माभात,
अन्येषां तु माहा समागमात् । सावनित्यानि ॥१॥
मूर्खशठः सर्वथा त्याज्य ॥१॥" स च हतप्रतिभ एव मुण्डो न किञ्चिदुत्तरं दातुं शक्नोतीति चिन्तयंस्तदुत्पासनार्थ पुनः पुनस्तदेव भणितुमारेभे, ततो | भणित: सूरिणाऽसौ- भो भोः किमेवमसम्बद्धमुल्लपसि?, यदि जल्पसामर्थ्यमस्ति तदा कुरु पूर्वपक्षं पञ्चावयववाक्योपन्यासेन, अत्रान्तरे पादयोर्निपत्य विज्ञप्तं सविनयमेकेन विनेयेन, यथा-भगवन् ! कोऽयं ? यदस्योपरि एवं संरम्भः समारभ्यते भवद्भिः, यत:- "गण्डस्थलोल्लसदमन्दमदप्रवाहगन्धावबद्धमधुपोद्धरवारणेन्द्राः । एकैकघातवशतोऽपि पतन्ति यस्य तस्य क्रमः किमु चकास्ति हरेर्मूगेषु ? ॥१॥" तदलमाक्षेपेण, दीयतामादेशो मा येनापनयामि वादगर्वमेतस्य, ततोऽनुज्ञातो गुरुणा स मन्त्रिणं भणितुमुपचक्रमे-भो यत्त्वयोक्तम्-आनन्दरूपं विषयसुखं, तदसम्बद्वं, यत: केषाञ्चिदसमसमुल्लसितसद्विवेकानां विषविकारसममेव विषयसुखमाभाति, तथाहि-त एवं चिन्तयन्ति, यथोक्तं व्यासेन- “एकैकशोऽपि निघ्नन्ति, विषया विषसंनिभाः । किं पुनर्न विवेकात्मा, यः समं पञ्च सेवते ॥१॥" अन्येषां तु मोहावष्टब्धचेतसां यद्यप्यानन्दरूपं प्रतिभाति तथाऽपि तेषामपि विद्युल्लताविलसितमेव स्तोककालिकमेतद्, यत उक्तम्- “सुखास्वादलवो योऽपि, संसारे सत्समागमात् । सवियोगावसानत्वादापदां धुरि वर्त्तते ॥१॥" किञ्च- "सुरतसुखं खलमैत्री सन्ध्यारागः सुरेन्द्रकोदण्डम् । कलिकालयौवनं जीवितं च सर्वाण्यनित्यानि ॥१॥" यच्चोक्तं 'सर्वपाषण्डदूषितो जिनधर्मः,' तदप्ययुक्तं, यत: सकलपाषण्डिनामपि प्राणातिपातादिपरिहारात्मको धर्मः सम्मत एव, तथा चोक्तम्"पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम् ॥१॥' 'विशिष्टजनपरिहृत'मिति यदुक्तं तदप्यसङ्गतं, यत: सर्वस्यापि धर्मस्य दया मूलं, सा चाविकलाऽत्रैव, यथावज्जीवतत्त्वपरिज्ञानात्, नान्यथा, अतोऽयमेव विशिष्टजनैसद्रियते सम्पूर्णधर्मफलकाम्यया, यच्च निजश्रियं परित्यज्येत्याधुक्तं तद्दूषणमेव न भवति, लक्ष्मीपरित्यागभिक्षाटनाङ्गीकारयोः सकलधार्मिकाभिप्रेतत्वात्, तथाहि-लक्ष्मी: तावत्प्राणिना सकलव्यसनमूलमिति त्याज्या, तथा चोक्तम्- “या गम्याः सत्सहायानां, यासु खेदो महद्भयम् । तासां किं यन्न दुःखाय, विपदामिव सम्पदाम् ? ॥१॥'' इति, भिक्षा तु विशिष्टगुणेत्युपादेया, तथा चार्षम्-“अवधूतां च पूतां च, मूर्खाद्यैः परिनिन्दिताम् । चरेन्माधुकरी वृत्तिं, सर्वपापप्रणाशिनीम् ।।१।।" तथा- “एकान्नं नैव भुञ्जीत । बृहस्पतिसमादपि । चरेन्माधुकरी वृत्तिमपि म्लेच्छकुलादपि ॥२॥" यद्वा (च्च) 'मलमलिने' त्याद्युक्तं तत्रापि मुनिजनस्य शास्त्रे स्नाननिषेधान्मलधारित्वं न दूषणं, यथोक्तं भवदार्षे- “स्नानं मददर्पकरं, कामाङ्गं प्रथमं स्मृतम् । तस्माक्तामं परित्यज्य, न स्नान्तीह दमे रताः ॥३॥" अशुचित्वं च ब्रह्मचारिणां भवदागम एव 'ब्रह्मचारी सदा शुचि' रित्यादौ निषिद्धम् । a tional
य शास्त्र व भुञ्जीत । वृहस्पतिसमादाता च पूतां च, मूर्खाद्यैः पारा कि यन्न दुःखाय, विपदा
॥७५॥
Sain Educ
For Persona & Private Use Only
Sibrary.org