________________
नवपदवृत्ति: मू. देव.
वृ. यशो
॥६६॥
सकलस्यापि संसारिणो जीवराशेः, अतो यदि कथञ्चिदितो विमुच्येयं ततः परित्यक्तसकलसावद्यः स्वस्य परस्य च नाथाताहेतुं व्रतं कषायारातिदर्पापहं चरिष्यामि, एवं च विचिन्तयतः परिगलन्त्यां रात्रौ क्षयं गता मे वेदना, ततश्च प्रभातसमये विहिततदुचितकर्तव्य आपृच्छ्य पितृप्रमुखं बान्धवजनं परित्यक्तसकलपापस्थानोऽनगारतां प्रपन्नः, तद् भो राजन् ! इदमत्र तात्पर्यं संसारिणां जीवानामनेकभवपरिवर्तनाखिन्नानां शारीरमानसानेकदुःखसम्पातपीडितानां नाम न कश्चित्परित्राणहेतुः मुक्त्वा धर्मम्, अतो मयाऽयं समाश्रित इति, श्रुत्वा च श्रेणिकः प्रहृष्टचेतास्तमुपबृंहितवान्-भदन्त ! सत्यमनाथत्वमुपदर्शितं भवता, सुलब्धं हि भवतो मानुषं जन्म, येनैवं सकलमपि जगदनाथं विज्ञाय परमनाथः कषायारातिदर्पोच्छेदकारी निः शेषशारीरमानसदुःखनिराकरणदक्षो धर्मः समाश्रितः, इत्याद्युपबृह्याभिवन्द्य च यो मया प्रश्नविधानेन भवतां स्वाध्यायविघ्नः कृतः स क्षमणीय इत्यभिधाय स्वाश्रयं जगाम यथा च श्रेणिकेन तस्योपबृंहणा कृता तथाऽन्येनापि कार्या, यो न करोति सोऽतिचरति सम्यक्त्वमिति प्रस्तुतार्थयोजनेति । इयं चोत्तरत्रापि योजनीयेति, अस्थिरीकरणमपि स्थिरीकरणस्याकरणरूपं, स्थिरीकरणं चाम्युपगतधर्मानुष्ठानं प्रति विषीदतां स्थैर्यापादानमभिधीयते, तत्र चार्याषाढसूरिः स्वशिष्यस्थिरीकृतो दृष्टान्तः, तक्तथा चोत्तराध्ययनबृहद्वत्तितो यथादृष्टैव लिख्यते
अस्थि वच्छाभूमीए अज्जासाढा नामायरिया बहुस्सुया बहुसीसपरिवारा य, तेसिं गच्छे जो कालं करेति तं णिज्जावनि भत्तपच्चक्खाणाइणा, तओ बहवे णिज्जामिया, अण्णया एगो अप्पणतो सीसो आयरतरेण भणितो देवलोगाओ आगंतुं मम दरिसणं देज्जासु, ण य सो आगता वक्खित्तचित्तत्तणओ, पच्छा सो चिंतेति-सुबहु कालं किलिट्ठोऽहं, सलिंगेण चेच ओहावइ, पच्छा तेण सीसेण देवलोगगएण आभोइतो, पेच्छति ओहावेंते, पच्छा तेण तस्स पहे गामो विउव्वितो, णडपेच्छाए सो तत्थ छम्मासे पेच्छंतो अच्छिओ, ण छुहं ण तण्हं कालं वा दिव्वप्पभावेण वेएति, पच्छा तं सहरिडं गामस्स बहिं विजणे उज्जाणे छद्दारए सव्वालंकारविभूसिए विउव्वति, संजमपरिक्खत्थं, दिट्ठा तेण ते, गिण्हामि एएसिमाहरगाणि, वरं सुहं जीवतोत्ति, सो एगं पुढविदारयं भणइ आणेहि आभरणगाणि, सो भणति-भगवं ! एगं ताव मे अक्खाणयं सुणेहि, ततो पच्छा गेहिज्जासि, भणइ-सुणेमि, सो भणइ- एगो कुंभकारो, सो मट्टियं खणतो तडीए अक्कंतो, सो भणति- 'जेण भिक्खं बलिं देमि, जेण पोसेमि नायओ । सा मे मही अक्कमइ, जायं सरणओ भयं ॥१॥ एत्थुवणओचोराइभयाओ अहं तुमं सरणमागओ, तुमं च एव विलुपसि, अओ ममवि जायं सरणओ भयं एवमण्णेसिवि उवणओ भाणियव्वो, तेण भण्णइ - अइपंडिओसि बालयत्ति, घेत्तूण आभरणगाणि पडिग्गहे छूढाणि, गओ पुढविकाइओ १ । इयाणिं आउक्कायदारओ बीओ, सोऽवि अक्खाणयं कहेइ, जहा एगो तालायरो
For Personal & Private Use Only
Jain Education International
स्थिरीकरणे आर्याषाढ :
॥६६॥
www.jainelibrary.org