SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥६५॥ स मुनिस्तमुवाच महाराज ! श्रूयतां यदि कौतुकं, अहमनाथतादुःखदुःखितो नानाविधारातिभिः पराभूयमानस्तथाविधं कमपि माभीप्रदातारमपरमपश्यन्नत्यन्तनिर्विण्णो व्रतं कर्त्तुमारब्धवान्, एतच्चाकर्ण्य किञ्चित्सप्रहासवदनः श्रेणिकोऽवदत्-भगवन् ! एवंविधविशिष्टाऽऽकृत्युपलक्ष्यमाणगुणवत्त्ववशीकृताशेषसम्पदोऽपि तव कथमनाथत्वं ?, यतो " यत्राकृतिस्तत्र गुणा वसन्ती 'ति लोकप्रवादः, तथा “सूरे त्यागिनि विदुषि य वसति जनः स च जनाद्गुणीभवति । गुणवति धनं धनाच्छ्रीः श्रीमत्याज्ञा ततो राज्यम् ॥१॥ | " एवंविधश्चान्यजनस्यापि नाथो भवति, यदि चानाथतामात्रमेव प्रव्रज्याप्रतिपत्तिहेतुस्तदाऽहमेव नाथो भवामि भवतः, मयि च नाथे न कश्चित्तव पराभवविधाता, अतो निराकुल एव विषयसुखमनुभव, इत्युक्तवति राजनि मुनिरवादीत्-राजन् ! सौर्यौदार्यादिगुणसूचकाकृतिमात्रेणैव न नाथैर्भूयते, नापि स्वयमेवानाथो भवान् मम नाथवतां कर्तुं शक्नोति न च त्वयि समाश्रतिऽप्यमी अरातयो मम पृष्ठं मुञ्चन्ति, अतः कथं निराकुलो विषयसुखमनुभवामि ?, इत्युक्ते मुनिना नृपतिराह - भदन्त ! आस्तां तावदपरम्, एतावन्मात्रं पृच्छामि, अहमत्र चतुरङ्गबलकलितराज्यसम्पत्समध्यासितोऽपि प्रतापावनामितानेकसामन्तोऽप्यवदलितवैरिनिकरोऽप्यप्रतिहताज्ञोऽपि सम्पद्यमानमानसाभीष्टपञ्चविधविषयसौख्योऽपि कथमनाथ: ?, कथय, मुनिराह - नरनाथ ! यथाऽनाथता मया विवक्षिता न तादृशी त्वया परिभाविता, मया स्वानुभूतानाथत्वविवक्षयेयमुपदर्श्यते, तथाहि पुरा कौशाम्ब्यां प्रभृतधनसञ्चयः पिता मे बभूव तत्पुत्रश्चाहं सजयाभिधानोऽतीव प्राणप्रियः पितुरभूतं, अन्यदा च ममाऽऽकस्मिको जनितसर्वाङ्गीणदाघवेदनोऽक्षिकुक्षिपर्शुकासु गाढशूलव्यथाप्रवर्त्तकस्तन्त्रमन्त्रमूलिकादिभिरपि सुदुर्वारो महाव्याधिरुदभूत्, तदभिभूतस्य च मम प्रगुणीकरणार्थमाहूताः पित्राऽनेके चिकित्साशास्त्रविशारदा वैद्या मन्त्रतन्त्रज्योतिष्कादिविदोऽन्ये च बहवो लोकाः, प्रारब्धास्तैरात्मीयात्मीयाश्चिकित्साः, न च स्वल्पोऽपि मे ताभिः प्रतीकार संपन्न, पिता च मे यः कश्चिदेनं प्रगुणीकरोति तस्य सकलमेव स्वहस्तेन स्वगृहसारे प्रयच्छामीति प्रतिपादयन् माता च मम दुःखदुःखिता हा वत्स ! कदा प्रगुषो भविष्यसीत्यादि विलपन्ती भ्रातरश्चि ज्येष्ठकनिष्ठा नानाविधान् अङ्गसंबाधनाद्युपचारान् विरचयन्तः भार्या च हा नाथ ! प्राणभ्योऽपि प्रियतम ! किमेतत्ते जातमित्यादि प्रलापान् कुर्वन्ती अन्योऽपि च स्वजनमित्रदासीदासादिपरिकरो गाढं मदुःखदुःखितात्मा क्षणमात्रमपि मत्सकाशममुञ्चन् न तिलतुषमात्रमपि दुःखमुपहृतवान् इत्थं चानाथतादुःखदुःखितस्य मे न कश्चित् किञ्चित्परित्राणं कृतवान्, ततोऽहं चिन्तयामास तीव्रगाढव्याधिवेदनाभिभूतः खलु अहमिदानी, न चेहैवेयं मे, किन्त्वन्यत्रापि नरकादिभवे विचित्रवेदना अनुभूतवान्, न चैतत्पीडितस्य माभीप्रदाता कश्चित्संभाव्यते एतन्मूलं च मेऽमी दुर्वाराः कषायारातयो, न च ममैवेवं किन्तु For Personal & Private Use Only Jain Education International ॥६५॥ www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy