SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥६५॥ स मुनिस्तमुवाच महाराज ! श्रूयतां यदि कौतुकं, अहमनाथतादुःखदुःखितो नानाविधारातिभिः पराभूयमानस्तथाविधं कमपि माभीप्रदातारमपरमपश्यन्नत्यन्तनिर्विण्णो व्रतं कर्त्तुमारब्धवान्, एतच्चाकर्ण्य किञ्चित्सप्रहासवदनः श्रेणिकोऽवदत्-भगवन् ! एवंविधविशिष्टाऽऽकृत्युपलक्ष्यमाणगुणवत्त्ववशीकृताशेषसम्पदोऽपि तव कथमनाथत्वं ?, यतो " यत्राकृतिस्तत्र गुणा वसन्ती 'ति लोकप्रवादः, तथा “सूरे त्यागिनि विदुषि य वसति जनः स च जनाद्गुणीभवति । गुणवति धनं धनाच्छ्रीः श्रीमत्याज्ञा ततो राज्यम् ॥१॥ | " एवंविधश्चान्यजनस्यापि नाथो भवति, यदि चानाथतामात्रमेव प्रव्रज्याप्रतिपत्तिहेतुस्तदाऽहमेव नाथो भवामि भवतः, मयि च नाथे न कश्चित्तव पराभवविधाता, अतो निराकुल एव विषयसुखमनुभव, इत्युक्तवति राजनि मुनिरवादीत्-राजन् ! सौर्यौदार्यादिगुणसूचकाकृतिमात्रेणैव न नाथैर्भूयते, नापि स्वयमेवानाथो भवान् मम नाथवतां कर्तुं शक्नोति न च त्वयि समाश्रतिऽप्यमी अरातयो मम पृष्ठं मुञ्चन्ति, अतः कथं निराकुलो विषयसुखमनुभवामि ?, इत्युक्ते मुनिना नृपतिराह - भदन्त ! आस्तां तावदपरम्, एतावन्मात्रं पृच्छामि, अहमत्र चतुरङ्गबलकलितराज्यसम्पत्समध्यासितोऽपि प्रतापावनामितानेकसामन्तोऽप्यवदलितवैरिनिकरोऽप्यप्रतिहताज्ञोऽपि सम्पद्यमानमानसाभीष्टपञ्चविधविषयसौख्योऽपि कथमनाथ: ?, कथय, मुनिराह - नरनाथ ! यथाऽनाथता मया विवक्षिता न तादृशी त्वया परिभाविता, मया स्वानुभूतानाथत्वविवक्षयेयमुपदर्श्यते, तथाहि पुरा कौशाम्ब्यां प्रभृतधनसञ्चयः पिता मे बभूव तत्पुत्रश्चाहं सजयाभिधानोऽतीव प्राणप्रियः पितुरभूतं, अन्यदा च ममाऽऽकस्मिको जनितसर्वाङ्गीणदाघवेदनोऽक्षिकुक्षिपर्शुकासु गाढशूलव्यथाप्रवर्त्तकस्तन्त्रमन्त्रमूलिकादिभिरपि सुदुर्वारो महाव्याधिरुदभूत्, तदभिभूतस्य च मम प्रगुणीकरणार्थमाहूताः पित्राऽनेके चिकित्साशास्त्रविशारदा वैद्या मन्त्रतन्त्रज्योतिष्कादिविदोऽन्ये च बहवो लोकाः, प्रारब्धास्तैरात्मीयात्मीयाश्चिकित्साः, न च स्वल्पोऽपि मे ताभिः प्रतीकार संपन्न, पिता च मे यः कश्चिदेनं प्रगुणीकरोति तस्य सकलमेव स्वहस्तेन स्वगृहसारे प्रयच्छामीति प्रतिपादयन् माता च मम दुःखदुःखिता हा वत्स ! कदा प्रगुषो भविष्यसीत्यादि विलपन्ती भ्रातरश्चि ज्येष्ठकनिष्ठा नानाविधान् अङ्गसंबाधनाद्युपचारान् विरचयन्तः भार्या च हा नाथ ! प्राणभ्योऽपि प्रियतम ! किमेतत्ते जातमित्यादि प्रलापान् कुर्वन्ती अन्योऽपि च स्वजनमित्रदासीदासादिपरिकरो गाढं मदुःखदुःखितात्मा क्षणमात्रमपि मत्सकाशममुञ्चन् न तिलतुषमात्रमपि दुःखमुपहृतवान् इत्थं चानाथतादुःखदुःखितस्य मे न कश्चित् किञ्चित्परित्राणं कृतवान्, ततोऽहं चिन्तयामास तीव्रगाढव्याधिवेदनाभिभूतः खलु अहमिदानी, न चेहैवेयं मे, किन्त्वन्यत्रापि नरकादिभवे विचित्रवेदना अनुभूतवान्, न चैतत्पीडितस्य माभीप्रदाता कश्चित्संभाव्यते एतन्मूलं च मेऽमी दुर्वाराः कषायारातयो, न च ममैवेवं किन्तु For Personal & Private Use Only Jain Education International ॥६५॥ www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy