SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ नवपद सुभूमिभागाभिधानमुद्यानं, तदेकदेशवर्तिमालुकाकच्छनिवासिन्येका वनमयूरी बभूव, सा चान्यदा स्वकालक्रमोपचितं कललताधारमनुपहतमखण्ड-पाण्डुरमण्डकयुममसूत, काङ्क्षायणं वृत्तिःमू.देव.श इतश्च तस्यामेव चम्पायां तदा जिनदत्तसागरदत्तपुत्रौ सहपांशुक्रीडितौ परस्परं मित्रत्वसंपन्नौ सार्थवाहसुतावभूतां, तौ च कदाचित्र कुशध्व सुभूमिभागोद्यानमुद्यानत्रियमनुभवितुमशनपानखाद्यस्वाधूपपुष्पगंधादि समादाय गणिकया देवदत्तया परिगतौ समागतौ, तत्र च पुष्करिणीषु नानाविधभङ्गीभिर्जलक्रीडां जोदा ॥५८॥ विधाय देवदत्तया सार्द्ध कामभोगलालसौ चिरं स्थित्वा तस्यैवोद्यानस्य रम्यरम्यतरान् प्रदेशानवलोकयन्तौ तमेव मालुकाकक्षं प्रविविशतुः, ततश्च सा वनमयूरी तावालोक्य वस्तमानसा महत: केकारवान् कुर्वती ततो निष्कम्य तदनतिदूरवर्त्तिवृक्षशाखााधिरुढा सार्थवाहपुत्रौ मालुकाकक्षं चानिमेषया दृष्ट्याऽवलोकयन्ती तस्थौ, तौ तु तां वनमयुरी तथा दृष्ट्वा परस्परं मन्त्रितवन्तौ-यथा भवितव्यमत्र केनचिक्तारणेन येनागतमात्रावेवावां न दृष्ट्वेयं वनशिखण्डिनी खण्डितेव महादुःखाभिभूता जाता, न चैतावतैव स्थिता, किन्तु वासवशविवशदृष्टिरितो निर्गत्याऽऽवां कक्षा च निरीक्ष्यमाणाऽऽस्ते, तदलोकयाव: कक्षान्तरं किमत्र कारणमित्यालोच्य सर्वत: कक्षान्तरं दृष्टवन्तौ तावद् यावदवलोकयांबभूवतुस्तदण्डकयुग्मं, गृहीत्वा च तत्तावागतौ निजवेंश्म, समर्पितं च स्वस्वदासानामेकैकं तद्रक्षणार्थमनया बुद्ध्या, यथा निष्पन्नमेतन्मयूरयुग्ममावयोः क्रीडायै भविष्यति, तयोश्च सागरदत्तपुत्र: स्वगृहीतमयूराण्डके शङ्कां कृतवान् यथा किमिदं निष्पत्स्यते नवेति, शङ्कापरिगतश्च स नित्यमागत्यानेकाभिरुद्वर्त्तनादिभिस्तद्बाधिकाभि: प्रति जागरणाभि: परिजागर्ति स्म, अन्त:सारपरीक्षणार्थं च तक्तर्णमूलमानीयानेकधा खलखलयति स्म, एवं च गच्छत्सु दिवसेषु तत्तथाऽननुकूलचेष्टाभिर्विशुष्कमालोक्य विषण्ण: सागरदत्तपुत्रो गतश्च पश्चात्तापं, यथा-किमिदमित्थं मयोद्वर्तनादिभि: खेदितं ?। जिनदत्तपुत्रस्तु तत्र नि:शङ्क एव नोद्वर्तनादि किञ्चित्कृतवान्, केवलं विधिना पालितवान, अन्यदा च स्वकालक्रमेण निष्पन्नो मयुरपोतो दृष्ट: तेन हृष्टमानसेनाकारितो मयूरपोषक:, सन्मानपुरस्सरं भणितश्च-यथाऽयं मयूरपोतो विशिष्टप्रायोग्यद्रव्यपरिपोषणाभि: शीघ्रमेव परिपुष्टो भवति नृत्तकलां च विशिष्टामभ्यस्यति तथा विधीयतां, तेनापि तद्वचनमनुमत्य गृहीतो मयूरपोतो नीत: स्वगृहं प्रारब्ध: पोषयितुमनेकद्रव्योपचारैः शिक्षितश्च विविधभङ्गीभिलास्यलीला तावद् यावदुन्मुक्तबालभाव: परिपूर्णमानोन्मानप्रमाणो विचित्रगुरुकलाकलापोपेत एकतालेनैवानेकप्रकारनृत्यकारी संपन्न:, दृष्ट्वा च तं तथोपात्तकलाकलापोपशोभितं । कलापिनं स मयूरपोषको नीत्वा जिनदत्तपुत्रपार्श्व समर्पितवानेनं, तेनापि तं तथाविधमालोक्य हर्षप्रकर्षोद्भिन्नरोमाञ्चक कावच्छादितवपुषा दत्तं विपुलं तन्मनोमोददायि तस्मै पारितोषिकं, संगोपितश्च स्वमयूरः, तेन च स्थानस्थानप्रवर्त्तितापूर्वापूर्वलास्यलीलाविनोदेन हृतहृदयीकृत: समस्तश्चम्पानगरीलोको ॥५८॥ जिनदत्तसुतेनेति । शङ्काभावाभावाभ्यां दोषगुणौ परिभाव्य विषयशङ्का परिहार्येति, तथा चोक्तम्-"जिणवरभासियभावेसु भावसच्चेसु भावओ For Personas Private Use Only RORS Lain E KO anal Meibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy