SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥५५॥ धर्मलाभवचनेन । भवमूलकर्मकुलशैलदलनवज्रानलेनोच्चैः ॥५७।। उपविश्य ततोऽवादीद्धनो यथा नाथ ! पुण्यरहितस्य । रोहति न कल्पवृक्षो गृहे न वा पतति वसुधारा ।।५८।। यतः-संसारजलधिपोतं समतृणमणिलेष्टुकनकरिपुसुहृदम् । संप्राप्यापि भवन्तं सद्वर्मनिवेदकं सुगुरुम् ।।५९।। न श्रुतममृतसमानं वचनं . न कृता जगत्प्रशस्या च तव चरणकमलसेवा विहिता च न ते क्वचिच्चिन्ता ॥६०॥ युग्मम् । तदिदं प्रमादकरणं सहनीयं नाथ ! मामकं भवता । एतद्वचनावसितौ सूरिस्तमवोचदुचितज्ञः ।।६१।। यथा-सार्थपते ! सन्तापं मा गास्तवं येन सर्वमेवेह । कृतमस्माकं भवता पालयता क्रूरसत्त्वेभ्य: ॥६२।। आहारादि यथासंभवं च देशादियोग्यतासदृशम् । त्वत्सार्थिकलोकेभ्य: सर्वं संपद्यतेऽस्माकम् ।।६३॥ ततो धनेनोक्तम्-संस्थापना वचोभि: किममीभिर्नाथ ! बहुभिरप्युक्तै:?। लज्जे स्म सर्वथाऽहं प्रमादचरितेन खल्वमुना ॥६४॥ तस्मादनुग्रहं मे विधाय संप्रेषयस्व मुनियुग्मम् । तत्प्रायोग्यं किञ्चिद् येनाहं X संप्रयच्छामि ॥६५।। अप्रतिपात्यं भावं गुरुरपि विज्ञाय तस्य तमुवाच । एवं क्रियते सुन्दर ! किन्तु यतीनां यदिह कल्प्यम् ।।६६।। तज्जानात्येव भवान् सोऽपि प्रतिवक्ति नाथ ! जानामि । यदनुचितं साधूनां तन्नैव विभो ! प्रदास्यामि ।।६७।। तदनन्तरमाचार्यैस्तपस्विसङ्घाटक: समादिष्ट: । गमनार्थं तत्र धनोऽप्यभिवन्द्य गतो निजावासम् ॥६८।। क्षणमात्रेणायातं निजानुमार्गेण वीक्ष्य मुनियुग्मम् । अवलोकयति स्म धनस्तदा च तद्योग्यमशनादि ।।६९।। भवितव्यतानियोगाद् न यावदन्यन्निरीक्षितं किञ्चित् । स्त्यानमुपादाय धृतं यतिपुरतस्तावदुपतस्थौ ॥७०।। उक्तवांश्च-यदि कल्पनीयमेतत्तदाऽनुगृह्णीत कुरुत । मत्तोषम् । कल्पत इत्युक्त्वा तैमुनिभिरुपस्थापितं पात्रम् ॥७१।। ततश्च-परिवर्द्वमानशुभकण्डकेन तद्भावसारचित्तेन । निजजन्मजीवितधनं कृतार्थमभिमन्यमानेन ॥७२॥ दत्तं घृतं मुनिभ्य: परमानन्दोत्थपुलकिना तावत् । परिपूर्णमिति भणद्भिर्यावत्तैः संवृतं पात्रम् ।।७३।। अभिवन्द्य भावसारं तदनु प्रस्थापिताश्च तेनैते । प्रवितीर्णधर्मलाभा यथासमायातमुपजग्मुः ॥७४।। ततश्च सार्थवाहेन-तद्भावसारदानप्रभावतो बोधिबीजमुपचित्य । भव्यत्वपाककारणमपारभवजलधितीरापम् ॥७५।। निर्वर्तित: सुखौघ: सुरमनुजभवेषु शिवसुखसमानः । संसारमहाजलधिर्मुक्तितटी निकटमानीता ॥७६।। युग्मम् । तदनूत्तरोत्तरगुणक्रमेण समुपायॆ तीर्थकृत्त्वं च । तस्मात्त्रयोदशभवेऽनुभूयसिद्धि च संप्राप्त: ।।७७।। तत्त्रयोदशभवसूचिका चेय नियुक्तिगाथा, यथा- "धण १ मिहुण २ सुर ३ महब्बल ४ ललियंगय ५ वइरजंघ ६ मिहुणे य ७ । सोहम्म ८ विज्ज ९ अच्चुय १० चक्की ११ सव्वट्ठ १२ उसभे १३ य ॥७८॥" एवं च तस्य-सम्यक्त्वबीजमात्रेऽप्यवाप्यते यदि तथा फलाकलना । साक्षात्सम्यक्त्वाप्तौ तदेह तक्ति न यद्भवति ॥७९।। तथाहि-अशमसुखनिधानं धाम संविग्नतायाः, भवसुखविमुखत्वोद्दीपने सद्विवेक: । नर-नरकपशुत्वोच्छेदहेतुनराणां, शिवसुखतरुमूलं शुद्धसम्यक्त्वलाभ: ।।८०। उक्तञ्च-“सम्यक्त्वमेकं . Jain Educ a tional For Personal Private Use Only ww.xMorary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy