SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥५३॥ ।।७।। सर्वाधिकारचिन्तनपरायणस्य खलु सार्थवाहस्य । तस्य सकासे प्रहितं यतियुगलं सूरिणा तेन ||८|| युग्मम् । निजगृहसमागतं तत् साधुयुगं वीक्ष्य माणिभद्रोऽथ । अभिवन्द्य विनयसारं, पप्रच्छागमनहेतुमसौ || ९ || साधुभ्यामुक्तम्- भो ! धर्मघोषसूरिभिरावां प्रहितौ समागतावत्र । धनसार्थपतेः श्रुत्वा, वसन्तपुरसंमुखं गमनम् ||१०|| तेन समं जिगमिषवोऽस्मत्पूज्या यदि च स बहुमति । कुरुते । इत्युक्तः सोऽवादीदनुग्रहः सार्थवाहस्य || ११ | किन्तुस्वयमेव गमन-समये सूरिभिरागत्य सार्थवाहोऽपि । भणनीय इति गदित्वा नत्वा तौ प्रेषयामास ॥ १२ ॥ गत्वा तपस्वियुग्मेन तेन सर्वं निवेदितं सूरेः । तेनाथ तदनुमन्य स्वधर्मनिरतेन संतस्थे || १३|| अन्यस्मिन्नहनि ततः प्रशस्ततिथिकरणयोगनक्षत्रे । प्रस्थानमेष चक्रे नगरादविदूरभूभागे ॥ १४ ॥ तत्रस्थस्यायाता आचार्यास्तस्य दर्शननिमित्तम् । बहुमुनिजनपरिवारा, दृष्टा धनसार्थवाहेन ॥ १५ ॥ उत्थायासनदानाद्युचितप्रतिपत्तिपूर्वमभिवन्द्य । किं यूयमपि समेष्यथ मया समं पृष्टवानेवम् ||१६|| अनुमन्यते यदि भवानित्येवं सूरयोऽपि तं बभणुः । आहूय सूपकारं तदनन्तरमुक्तावानेषः ||१७|| भो भद्र ! यद् यदा वामीषामनादि कल्पते किञ्चित् । मुनिपुङ्गवेभ्य एभ्यः तत्सर्वं देयमविकल्पम् ||१८|| एवं श्रुत्वाऽऽचार्येण पुनरप्युक्तं यथा न सार्थपते ! आहारादिकमित्थं विचिन्तितं कल्पतेऽस्माकम् ॥ १९ ॥ यन्न कृतं नानुमतं न कारितं किन्त्वचिन्तितं गृहिणा । आत्मार्थमेव रचितं प्रायोग्यं तद यतो व्रतिनाम ।।२०।। अत्रान्तरे धनस्य प्राभृतिकं कश्चिदर्पयामास । परिपक्कसुरभिसहकारसत्फलैः स्थालमापूर्णम् ॥ २१॥ तद्वीक्ष्य सार्थपतिना हृष्टेनोचे यथाऽनुगृणा । भगवन्तः ! संप्रति मामुचितफलग्रहणतो यूयम् ॥ २२॥ आचार्यैरुक्तम्- सम्प्रत्येव निवेदितमेवं भवतो यथा गृहस्थैर्यत् । आहारादि कृतं स्यात् स्वार्थं तक्तल्पतेऽस्माकम् ।।२३।। कन्दफलमूलकादि तु शस्त्रोपहंत न यत्तदस्माकम् । स्प्रष्टुमपि नोचितं स्यात् किं पुनरिह खादितुं ? भद्र ! ||२४|| तच्छ्रुत्वा तेन ततो, भणितमहो ! दुष्करं व्रतं भवताम् । शाश्चतसौख्यो मोक्षः सुखेन न प्राप्यते यद्वा ॥ २५ ॥ एवं यद्यपि भवतामस्माभिः स्तोकमेव किल कार्यम् पथि गच्छतां तथाऽपि स्यादपि तदवश्यमादेश्यम् ॥ २६ ॥ इत्युक्त्वा प्रणिपत्य प्रशस्य च प्राहिणोदसौ सूरीन् । तेऽप्युक्तधर्मलाभाः स्थण्डिलभुवमागताः शुद्धम् ||२७|| स्वाध्यायध्यानपरास्तत्र स्थित्वा विभावरीं सकलाम् । याताः प्रभातसमये (ग्रं. १५००) साकं धनसार्थवाहेन ।। २८।। तदा च तापयति महीपृष्टं शोषयति जलाशयांस्तृषं तनुते । नाशयति सरसभावान्निदाघसमयो गतो वृद्धिम् ॥ २९ ॥ एवंविधे च काले गच्छन् सततप्रयाणकैः सार्थः । विविधश्चापदभीमां प्राप्तो विषमाटवीमेकाम् ||३०|| सर्जार्जुनसरलतमालतालहिंतालसल्लकैर्वृक्षैः । अवरुद्धकरप्रसरः सूरोऽपि न लक्ष्यते यत्र ||३१|| अवान्तरे-ग्रीष्मेण धरावलयं समस्तमुत्तापितं विलोक्यैव । तस्याश्वासनहेतोः पयोदसमयः समायातः ॥ ३२॥ ततः - तडिदुच्चलप्रतापो ग्रीष्मं गुरुगर्जितेन For Personal & Private Use Only Jain Education International ॥५३॥ www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy