________________
नवपदवृत्ति: मू. देव.
वृ. यशो
॥५३॥
।।७।। सर्वाधिकारचिन्तनपरायणस्य खलु सार्थवाहस्य । तस्य सकासे प्रहितं यतियुगलं सूरिणा तेन ||८|| युग्मम् । निजगृहसमागतं तत् साधुयुगं वीक्ष्य माणिभद्रोऽथ । अभिवन्द्य विनयसारं, पप्रच्छागमनहेतुमसौ || ९ || साधुभ्यामुक्तम्- भो ! धर्मघोषसूरिभिरावां प्रहितौ समागतावत्र । धनसार्थपतेः श्रुत्वा, वसन्तपुरसंमुखं गमनम् ||१०|| तेन समं जिगमिषवोऽस्मत्पूज्या यदि च स बहुमति । कुरुते । इत्युक्तः सोऽवादीदनुग्रहः सार्थवाहस्य || ११ | किन्तुस्वयमेव गमन-समये सूरिभिरागत्य सार्थवाहोऽपि । भणनीय इति गदित्वा नत्वा तौ प्रेषयामास ॥ १२ ॥ गत्वा तपस्वियुग्मेन तेन सर्वं निवेदितं सूरेः । तेनाथ तदनुमन्य स्वधर्मनिरतेन संतस्थे || १३|| अन्यस्मिन्नहनि ततः प्रशस्ततिथिकरणयोगनक्षत्रे । प्रस्थानमेष चक्रे नगरादविदूरभूभागे ॥ १४ ॥ तत्रस्थस्यायाता आचार्यास्तस्य दर्शननिमित्तम् । बहुमुनिजनपरिवारा, दृष्टा धनसार्थवाहेन ॥ १५ ॥ उत्थायासनदानाद्युचितप्रतिपत्तिपूर्वमभिवन्द्य । किं यूयमपि समेष्यथ मया समं पृष्टवानेवम् ||१६|| अनुमन्यते यदि भवानित्येवं सूरयोऽपि तं बभणुः । आहूय सूपकारं तदनन्तरमुक्तावानेषः ||१७|| भो भद्र ! यद् यदा वामीषामनादि कल्पते किञ्चित् । मुनिपुङ्गवेभ्य एभ्यः तत्सर्वं देयमविकल्पम् ||१८|| एवं श्रुत्वाऽऽचार्येण पुनरप्युक्तं यथा न सार्थपते ! आहारादिकमित्थं विचिन्तितं कल्पतेऽस्माकम् ॥ १९ ॥ यन्न कृतं नानुमतं न कारितं किन्त्वचिन्तितं गृहिणा । आत्मार्थमेव रचितं प्रायोग्यं तद यतो व्रतिनाम ।।२०।। अत्रान्तरे धनस्य प्राभृतिकं कश्चिदर्पयामास । परिपक्कसुरभिसहकारसत्फलैः स्थालमापूर्णम् ॥ २१॥ तद्वीक्ष्य सार्थपतिना हृष्टेनोचे यथाऽनुगृणा । भगवन्तः ! संप्रति मामुचितफलग्रहणतो यूयम् ॥ २२॥ आचार्यैरुक्तम्- सम्प्रत्येव निवेदितमेवं भवतो यथा गृहस्थैर्यत् । आहारादि कृतं स्यात् स्वार्थं तक्तल्पतेऽस्माकम् ।।२३।। कन्दफलमूलकादि तु शस्त्रोपहंत न यत्तदस्माकम् । स्प्रष्टुमपि नोचितं स्यात् किं पुनरिह खादितुं ? भद्र ! ||२४|| तच्छ्रुत्वा तेन ततो, भणितमहो ! दुष्करं व्रतं भवताम् । शाश्चतसौख्यो मोक्षः सुखेन न प्राप्यते यद्वा ॥ २५ ॥ एवं यद्यपि भवतामस्माभिः स्तोकमेव किल कार्यम् पथि गच्छतां तथाऽपि स्यादपि तदवश्यमादेश्यम् ॥ २६ ॥ इत्युक्त्वा प्रणिपत्य प्रशस्य च प्राहिणोदसौ सूरीन् । तेऽप्युक्तधर्मलाभाः स्थण्डिलभुवमागताः शुद्धम् ||२७|| स्वाध्यायध्यानपरास्तत्र स्थित्वा विभावरीं सकलाम् । याताः प्रभातसमये (ग्रं. १५००) साकं धनसार्थवाहेन ।। २८।। तदा च तापयति महीपृष्टं शोषयति जलाशयांस्तृषं तनुते । नाशयति सरसभावान्निदाघसमयो गतो वृद्धिम् ॥ २९ ॥ एवंविधे च काले गच्छन् सततप्रयाणकैः सार्थः । विविधश्चापदभीमां प्राप्तो विषमाटवीमेकाम् ||३०|| सर्जार्जुनसरलतमालतालहिंतालसल्लकैर्वृक्षैः । अवरुद्धकरप्रसरः सूरोऽपि न लक्ष्यते यत्र ||३१|| अवान्तरे-ग्रीष्मेण धरावलयं समस्तमुत्तापितं विलोक्यैव । तस्याश्वासनहेतोः पयोदसमयः समायातः ॥ ३२॥ ततः - तडिदुच्चलप्रतापो ग्रीष्मं गुरुगर्जितेन
For Personal & Private Use Only
Jain Education International
॥५३॥
www.jainelibrary.org