________________
नवपदवृत्तिः मू. देव. व. यशो
।। ४६ ।।
सहसंमतिः, कोऽर्थः ? - परोपदेशनिरपेक्षतया जातिस्मरणप्रतिभादिरूपया, केचिदित्थं लभन्ते, अन्ये कथमित्याह- 'परव्याकरणात्' परोपदेशाद् 'अन्ये' अपरे कृत्वा ग्रन्थिभेदं लभन्ते सम्यक्त्ववररत्नमिति पूर्वसम्बन्धः इति गाथाऽक्षरार्थेः ॥ भावार्थस्तु सप्ततिकागृहच्चूर्णितोऽवसेयः, स्थानाशून्यार्थं तु किञ्चिल्लिख्यते-इह कश्चिदनादिमिध्यादृनाष्टिर्नरकगत्यादिगतिचतुष्टयान्यतरगतौ वर्तमानो ज्ञानावरणादिसप्तप्रकारकर्मराशेर्यथाप्रवृत्तकरणसंपादितान्त:सागरोपमकोटाकोटिस्थितिकः सञ्ज्ञिपञ्चेन्द्रियपर्याप्तो मतिश्रुतविभंगानामन्यतरसाकारोपयोगे मनोवाक्काययोगत्रिकान्यतरयोगे तेजः पद्मशुक्ललेश्यानां क्रमेण विवक्षितजघन्यमध्यमोत्कृष्टपरिणामानामेकतरलेश्यापरिणामे वर्त्तमानोऽशुभप्रकृतीनां चतुः स्थानकरसं द्विस्थानकं शुभप्रकृतीनां द्विस्थानकरसं चतुः स्थानकं कुर्वाणो ज्ञानावरणान्तरायदशकदर्शनावरणनवकमिध्यात्वकषायषोडशकभयजुगुप्सातैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणरूपाः सप्तचत्वारिंशदध्रुवबन्धिनीः सर्वा एव बध्नन् परावर्त्तमानास्तु संभवद्भवप्रायोग्या अविशुद्धस्यायुर्बन्धाध्यवसानयोगादायुष्कवर्ज्या एव स्वीकुर्वाणः, तथाहि यदि तिर्यङ् मनुष्यो वा प्रथमं सम्यक्त्वलाभमुपार्जयति तदा देवगतिप्रायोग्या एवं सुरद्विकवैक्रियद्विकपराघातोच्छ्वासप्रशस्तविहायोगतिपञ्चेन्द्रियजातिसातोच्चैर्गोत्रसमचतुरस्रत्रसादिदशकस्वभावा एकविंशतिप्रकृतीर्वध्नाति, सुरनारकौ तु मनुष्यगतिप्रायोग्या एव मनुष्यद्विकौदारिकद्विकप्रथम संहननपराघातादिद्वाविंशतिं स्वीकुरुतः, सप्तमपृथ्वीनारकास्तु तिर्यद्रिकनीचैर्गोत्रसहिताः प्रागुक्तमनुष्यगतिप्रायोग्यद्वाविंशत्यन्तर्गता एवैकोनविंशतिप्रकृतीर्बन्धन्तीति । तथा पूर्वप्रकरणानिवृत्तिकरणसञ्ज्ञकविशुद्धिविशेषाभ्यां प्रत्येकमन्तर्मुहूर्तमात्रकालमानाभ्यां विशुद्धयमानः स्थितिघातरसंघातस्थितिबन्धगुणश्रेणीरपूर्वा (अ) पूर्वतराश्च प्रवर्त्तयन्नन्तरकरणमारभते, तथा चोक्तम्"ठिड्कडगाण एवं बहु सहस्सा अइच्छिया जाहे । संखेज्जइमे भागे सेसे अनियद्वियध्याए ॥१॥ आढवड अंतर सो अंतमुहुत्त तु ओ धरियं । तं पढमठिई जाणसु आईए मिच्छदलियस्स ॥ २॥ अंतमुहुत्ता उवरिं किंचणमुहुत्तगेण सरिसाउ । मिच्छत्तस्स ठिईड उक्किरइ तमंतर भणिये || ३ || " तत्र प्रथमस्थितौ मिध्यात्वदलिकवेदनादसौ मिध्याद्यष्टः, अन्तर्मुहूतेन तु तस्यामपगतायामन्तरकरणप्रथसमय एवं निसर्गतोऽधिगमतो वौपशमिकसम्यक्त्वमाप्नोति, यस्त्वन्तरकरणं न करोति स प्रथममेव यथाप्रवृत्नादिकरणत्रयेणैव विहितत्रिपुञ्जीकरणस्तथैव क्षायोपशमिकं सम्यक्त्वं लभते, तल्लाभे च सम्यग्ज्ञानादिलाभ:, उक्तञ्च- "लभेण तस्स लभति हु आयहियं णाणदंसणश्चरितं । तं संसारसमुद्दे जीवेण अलखपु तु || १||" इति कृतं प्रसङ्गेन, यद्यपि चात्र सूत्रे स्वसंमत्या परव्याकरणाच्च सम्यक्त्वोत्पत्तौ दृष्टान्तसूचा न कृता तथाऽप्याद्यपदे श्रेयांसो द्वितीयपदे चिलातीपुत्रो निदर्शनमवगन्तव्यं तत्र श्रेयांसकथानकमिहैवाऽतिथिसंविभागव्रतभावनाद्वारे वक्ष्यति, चिलातीपुत्रकथा चेयम्
For Personal & Private Use Only
Jain Educationemnational
सम्पक्त्वो त्याविधि
गा. १४
३ ।। ४६ ।।
www.janbrary.org