SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥४४॥ इत्यादिलक्षणेनानुस्वारलोपे 'सम्मं' ति वक्ष्यमाणपदसम्बन्धेनैकविधं सम्यक्त्वमित्यादि योजनीयं, 'चउह' त्ति चतुर्धा - चतुर्भिः प्रकारैः सम्यक्त्वं भवतीति शेष:, 'पंचविह दसविहं ति पूर्ववद्योजनीयं तत्रैकविधं एकप्रकारमुपाधिभेदाविवक्षया निर्भेदमित्यर्थः, तद्यथा-तत्त्वार्थश्रद्धानं सम्यक्त्वमिति, उक्तं च-“त्रिकालविद्भिस्त्रिजगच्छरण्यैर्जीवादयो येऽभिहिताः पदार्थाः । श्रद्धानमेषां परया विशुद्ध्या, तद्दर्शनं सम्यगुदाहरन्ति ॥ १ ॥ त्रैकाल्यं द्रव्यषट्कं नवपदसहितं जीवषटाकायलेश्याः, पञ्चान्ये चास्तिकाया व्रतसमितिगतिज्ञानचारित्रभेदाः । इत्येते मोक्षमूलं त्रिभुवनमहितैः प्रोक्तमर्हद्भिरीशैः, प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः स वै शुद्धष्टिः ॥ २॥ " एतच्चानुक्तमप्यवसीयत इति सूत्रकृता न विवृतं, द्विविधादि तु न ज्ञायत इत्युल्लेखमाह- 'दव्वा' इत्यादि, यथाक्रममेव सम्बन्ध:, तेन द्विविध द्रव्यादि, त्रिविधं कारकादि, चतुर्धा पञ्चविधं चोपशमभेदैः, कृतैकशेषद्वन्द्वपदत्वाच्चास्योभयत्र सम्बन्ध इति भावनीयं दशविधं च वाशब्दसूचितनिसर्गादिभेदैः, तत्र द्विविधं 'दव्व' ति सूचामात्रत्वाद् द्रव्यतो भावतश्व, द्रव्यतः शुद्धमिध्यात्वपुञ्जवर्तिनः पुद्गला एव, भावतस्तदुपष्टम्भजनितो जीवस्य तत्त्वरुचिपरिणामः, आदिशब्दः प्रकारान्तरैरपि द्विविधत्वदर्शनार्थ:, तेन निश्वयव्यवहारनैसर्गिकाधिगमिकपौद्गलिकापौद्गलिकादिभेदतोऽपि द्विविधमिति, निश्चयव्यवहाररूपं च "जं मोणं तं सम्मं जं सम्मं तमिह होइ माणं तु । निच्छयओ इयरस्स उ, सम्म सम्मत्तहेऊवि ॥ १॥ इति गाथातो भावनीयं, निसर्ग :स्वभावस्तस्मादुपदेशाद्यनपेक्षं यत्सम्यक्त्वं जायते तन्नैसगिकम्, आधिगमिकं तु परोपदेशापेक्षं, पौद्गलिकं क्षायोपशमिकभावभावि, क्षायिकमौपशमिकं चापौद्गलिकमिति । त्रिविधं सम्यक्त्वं 'कारग' त्ति पूर्वोक्तहेतोः कारकरोचकव्यञ्जकभेदाद्, आदिशब्दात्क्षायोपशमिकादिभेदतो वेति, उक्तञ्च "सम्मत्तंपि य तिविहं खओवसमियं तहोवसमियं च । खड्यं च कारगाई पण्णत्तं वीयरागेहिं ॥ १ ॥ चतुर्धा सम्यक्त्वं, कैर्भेदैः ? इत्याह‘उवसमभेएहिं' ति बहुवचनस्य गणार्थत्वादौपशमिकक्षायिकक्षायोपशमिकसास्वादनभेदैः, पञ्चविधमप्येतैरेव वेदकसहितैः, पदघटनादि तु पूर्ववत्, दशविधं वाशब्दसूचितप्रज्ञापनोपाङ्गङ्घ्ष्टभेदैः, तथा च तत्रोक्तम्- “निसग्गुवएसरुई आणरुई सुत्तबीयरुइमेव । अहिगमवित्थाररुई किरिया संखेवधम्मरुई ॥१॥” कथं द्विविधादिभेदं सम्यक्त्वमित्याह- सम्यग् - अवैपरीत्येन आगमोक्तप्रकारेण, न तु स्वमतिपरिकल्पितभेदैः, कारकादिस्वरूपं च-जं जह भणियं तं तह करेइ सइ जम्मि कारगं तं तु । रोयगसम्मत्तं पुण रुइमित्तकरं मुणेयव्वं ॥ | १ || सयमिह मिच्छद्दिट्ठी धम्मकहाईहि दीवइ परस्स । सम्मत्तमिणं दीवग कारणफलभावओ नेयं ||२|| मिच्छत्तं जमुइण्ण तं खीणंअणुइयं च उवसंतं । मीसीभावपरिणयं वेइज्जतं खओवसमं || ३ || उवसामगसेढिगयस्स होइ , For Personal & Private Use Only Jain Educhternational सम्यक्त्वे भेदद्वारम् गा. १३ ॥ ४४ ॥ elibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy