SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति:मू.देव. वृ. यशो जियरागदोसमोहेहिं भासियं जमिह जिणवरिंदेहिं । तं चेव होइ तत्तं इय बुद्धी होइ सम्मत्तं ॥१२॥ "जियरागदोसमोहेहिं' ति रज्यते-शुद्धस्फटिकनिर्मलोऽप्यात्मा अन्यथात्वपाद्यतेऽनेनेति राग:-मायालोभकषायरूप: स च द्वेष्टि-तांस्तान् प्राणिनः प्रत्यप्रीतो भवत्यनेनति द्वेष:-क्रोधमानकषायलक्षणः, तथा च वाचकमुख्य:- "मायालोभकषायावित्येतद्रागसज्ञितं द्वन्द्वम् । क्रोधो मानश्व पुनर्वृष इति समासनिर्दिष्टः ॥१॥" स च मुह्यति-हेयोपादेयार्थेषु विचित्तो भवत्यनेनेति मोह:-अज्ञानं मोहयतीति वा मोह:-मोहनीयमेव मिथ्यात्वादिस्वभावं स च ते जिता:-पराभूता निर्मूलोच्छेदकरणेन, नतु सतामेव निष्प्रभत्वमात्रापादनेन, सर्वथा घातिकर्मविनाशेन केवलोत्पादे भगवतां देशनासम्भवात्, रागद्वेषमोहा यैस्ते तथा तै: जितरागद्वेषमोहै: 'भाषितं' प्रतिपादितं 'यत्' जीवादि ‘इह' जगति जयन्ति रागादीनिति जिना:छद्मस्थवीतरागास्तेषां वरा:-सामान्यकेवलिनस्तेषामिन्द्रा:-चतुस्त्रिंशदतिशयैश्वर्यवन्तस्तीर्थकरास्ते जिनवरेन्द्रास्तै:, एतच्च विशेष्यपदं जितरागद्वेषमोहैरिति च विशेषणं, अनेन च सम्यक्त्वलक्षणभणने हेतुः सूचितः, तथा चोक्तम्-वीतरागा हि सर्वज्ञाः, मिथ्या न ब्रुवते वचः । तस्मात्तेषां वचः सत्यं, तथ्यं भूतार्थदर्शनम् ॥१॥” इति, 'तं चेव' ति तच्छब्दो यच्छब्दापेक्षया 'च:' पूरणे ‘एव:' अवधारणे स च भिन्नक्रम: ततस्तदेव 'भवति' जायते 'तत्त्वं' परमार्थसत्, नान्यद्रागादिदोषोपहतकपिलादिप्रणीतं, रागादिदोषवत्तां च कपिलादीनामसद्भूतैकान्तनित्यादिभावदेशनागम्येति भावनीयं, 'इति' एवंविधा 'बुद्धिः' मति: 'भवति' जायते 'सम्यक्त्वं' सम्यग्दर्शनमिति । ननु बुद्धिर्नाम मतिः, सा च ज्ञानमेव, सम्यक्त्वं तु तत्त्वश्रद्धानं, यदाह वाचक:-'तत्त्वार्थश्रद्धानं सम्यग्दर्शनं (तत्त्वा १-२) मिति, ततो यज्ज्ञानं न तदर्शनमिति कथमेतत् ?, अनोच्यते, बुद्धिजन्या तत्त्वरुचिरपि बुद्धिशब्देन विवक्षिता, कार्ये कारणोपचारात्, नच कार्यकारणभावोऽप्यनयोर्नास्तीति वाच्यं, तथा च पूज्या:- नाणमवायधिईओ दंसणमिठं जहोग्गहेहाओ। तह तत्तरुई सम्मं रोइज्जइ जेण तं नाणं ॥१॥' अथवा सरससुन्दर आनन्दहेतुरयं मोदक इत्यादि गुणदर्शिका मतिलेकि रुचिः प्रतीता तद्विपरीता दोषग्राहिणी त्वरुचिः, तथेहापि लोकरूढ्या रुचिरूपैव बुद्धिर्विवक्षितेति न कश्चिद्दोष इति गाथार्थः ।।१२।। सम्यक्त्वे यादृशद्वारगाथेयमुपवर्णिता यथाबोधमितस्तस्या भेदद्वारं प्रपञ्चयते__ एगविहदुविहतिविहं चउहा पंचविह दसविहं सम्मं । दव्वाइकारगाइयउवसमभेएहि वा सम्मं ॥१३॥ 'एगविहदुविहतिविहं'ति, अत्र “नीया लोवमभूया य आणिया दीहबिंदुदुब्भावा” (नीता लोपं आनीताश्वाभूता दीर्घत्वबिन्दुविर्भावाः) JainEducK hemational For Personal Private Lise Only wAMA%brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy