________________
नवपदवृत्ति:मू.देव. वृ. यशो ॥३३॥
शङ्काका हात शेषः, केषां मपरिव्राजकः, सच द्वीपब्रह्मसु विष
सांसारिकसुखस्य निःस्पृहो भविष्यति, अन्यदा तथाविधाचार्यसमीपे समाकर्ण्य धर्मदेशनां विज्ञाय संसारासारस्वभावतां परिभाव्यैकान्तिकात्य-न्तिकपरमसुखरूपतामपवर्गस्य निर्विण्णो जातिजरामरणादिप्रवर्तनायास्तदुच्छेददक्षां सर्वसावधनिवृत्तिरूपां भगवदर्हदुपदिष्टां दीक्षां महाविभूत्या प्रपत्स्यते, ततश्चाशेषातिचाररहितां काञ्चित्कालं परिपाल्योत्तरोत्तरपरिणामविशुद्धिवशात्समारुह्य क्षपक्श्रेणी विधाय घातिकर्मक्षयमुत्पाद्य सकललोकालो-कप्रकाशनप्रत्यलं केवलज्ञानमनेकभव्यलोकोपकारं कुर्वाणो विहृत्य बहूनि वर्षाणि केवलिपर्यायेण संलिख्य मासिकसंलेखनयाऽऽत्मानं षष्टि भक्तान्यनशनेनावच्छिद्यान्तर्मुहूर्तावशेषायुष्कोऽनुभूय पञ्चहूस्वाक्षरोच्चारणतुल्यकाला योगनिरोधावस्था परित्यज्य भवोपग्राहिकर्मचतुष्केण सह शरीरमविग्रहगत्या समयेनैकेन सेत्स्यति ।। व्याख्यातं षष्ठ द्वारेण सोदाहरणेन मिथ्यात्वम्, अधुना सप्तमेनातिचारद्वारेणाभिधीयते
अइयरणं जहजायं सिवमुग्गलमाइ दीवबंभेसु । परिवडियविहंगाणं संकियमाईहिं सुत्तेहिं ॥९॥
अतिचरणं नामातिचार:- शङ्काकाङ्क्षाविचिकित्सादिरूपः, नतु सर्वथा मिथ्यात्वपरित्यागरूपः, तथारूपेत्वे भङ्गादविशेषप्राप्तेः, तद् यथा जातं-यथा सम्पन्नं मिथ्यात्वस्य तथा कथ्यत इति शेषः, केषां मिथ्यात्वातिचरणं जातमित्याह-सिवमोग्गलमाइ'त्ति सूत्रत्वाल्लुप्तषष्ठीविभक्तिको निर्देशः, तत: शिवमुद्गलादीनामित्यर्थः, शिवो-राजर्षिः मुद्गल:- परिव्राजकः, सच स च तौ तावादी येषां ते तदादयस्तेषां, कीदृशानामित्याह'प्रतिपतितविभङ्गानां विनष्टाज्ञानविशेषाणां, केषु विषये, ? इत्याह-'दीवबंभेसु' त्ति द्वीपब्रह्मसु विषये, द्वीपेत्यनेन सप्त द्वीपा व्याख्यानादवसेयाः, तदन्तर्गतत्वेन समुद्रा अपि सप्त लभ्यन्ते, ब्रह्मशब्देन च पञ्चमकल्पो ब्रह्मलोकाभिधोऽभिधीयते, तद्ग्रहणादनुक्ता अप्याद्याश्चत्वारो लभ्यन्ते, योजना तु यथासङ्ख्यं, तेनायमर्थ:-सप्तद्वीपविषयप्रतिपतितविभङ्गस्य शिवराजर्षे: पञ्चकल्पविषयप्रतिपतितविभङ्गस्य मुद्गलपरिव्राजकस्य च मिथ्यात्वातिचरणं । जातमिति संटङ्कः, कैः, ? इत्याह-'संकियमाईहिं सुत्तेहिं ति, शङ्कितादिभि: सूत्रैरिति गाथाऽक्षरार्थः । भावार्थस्तु कथानकाभ्यामवसेय:, ते चेमे
अस्थि उवरुवरि निवसन्तगामपट्टणमडंबसंकिण्णो। किण्णरनरविज्जाहरपरियरियपएसरमणीओ।।१।। रमणीयणमुहउवमिज्जमाणतामरसरुइरसरनियरो। सरनियरतीररेहिरकारण्डवहंसचक्कोहे ।।२।। कोहाइदोसवज्जियविहरताणेयमुणिगणपवित्तो। वित्तोवहसियवेसमणनयरिरिद्धीगुणो देसो।।३।। (त्रिभिर्विशेषकम्) अविय-सिरिरिसहनाहतणओ आसि पुरा तंमि कुरुनरिंदोत्ति । नामेण तस्स तो सो देसोऽवि कुरुत्ति विक्खाओ ॥४॥ अण्णं च-ठाणे २ दीसंति जत्थ ॥३ नयराई तह सराई च । सवणाणि सकमलाणि य कुवलयआणंदजणगाई ।।५।। सग्गं व विविहमणहरमणेयसुरभवणपंतिरमणीयं । तत्थस्थि हस्थिणपुरं
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org