SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ॥३२॥ वर्द्धमानस्वामिनं धर्माचार्यमम्मडपरिव्राजकं चाभिवन्द्य पूर्वप्रत्याख्यातयावज्जीविक-स्थूलप्राणातिपातमृषावादादत्तादानसर्वमैथुनपरिग्रहान् संस्मृत्येदानीमपि मिथ्यात्व नवपद वयं भूय: श्रमणस्य भगवतो महावीरस्यान्तिके सर्वं प्राणातिपातं प्रत्याचक्ष्महे इत्यादिक्रमेण सर्वव्रतान्युच्चार्याष्टादशपापस्थानविमुक्ताशया यावज्जीविकं यतनायां वृ. यशो चतुर्विधाहारपरिहारमाधाय शरीरमपि चरमोच्छ्वावसनि:श्वासेषु व्युत्सृष्टमस्माभिरिति चेतसि कृत्वा पादपोपगमनं कृतवन्तः, ततश्च कतिचिद्दिवसान्यनशनेन अम्मड स्थित्वाऽऽलोचितप्रतिक्रान्ता: समाधिना कालं कृत्वा पञ्चमे ब्रह्मलोककल्पे दशसागरोपमस्थितयो देवा उत्पन्नाः । एवं च ते लघुलाभमदत्तादानं परिहृत्य शिष्योदा. गुरुलाभं मरणं चाङ्गीकृत्य मिथ्यात्वयतनामासेवितवन्त इति प्रकृतमवसितं, प्रसङ्गागतं त्वम्मडपरिव्राजककथानकानुसन्धानं किञ्चित्कियते-तत्रासौ परिव्राजकपतिर्विविधकौतुकवशीकृता-शेषलोकः काम्पिल्यपुरे प्रतिवसति स्म, अन्यदा च तद्गुणानुरागविरचितमनोरञ्जनात् जनात्तद्गुणान् भगवान् गौतमस्वामी समाकर्ण्य नि:संशयप्रतीतिकृते भगवन्तं महावीरस्वामिनं विधिवत् पप्रच्छ-यथा भगवन् ! अयं लोको यद्यपदिशति-एवमम्मडपरिव्राजक: काम्पिल्यपुरे गृहशतेष्वाहारमाहारयति, एवं वसतिमुपैती-त्यादि, तत्कि तथा ?, भगवानवादीत्-तथा, कथमेतदेवमिति पृष्ट: पुनर्भगवान् ब्रूते स्म गौतम ! अम्मडपरिव्राजकस्य प्रकृतिभद्रताविनीतता-दिगुणोपेतस्यानवरतं षष्ठाष्टमादिप्रकृष्टतप:शोषितशरीरस्य सूर्याभिमुखोर्ध्वबाह्यातापनादिकायक्लेशमनुभवत K२ उत्तरोत्तरशुभपरिणामवशाद्विशुध्यमानलेश्यस्य तदावरणीयक्षयोपशमेन वैक्रियवीर्यावधिज्ञानादिलब्धयः समुत्पन्नाः, ततोऽसौ लोकविस्मायननिमित्तं सर्वमेवं । विदधाति, एवमाकर्ण्य गौतमो विनयविरचिताञ्जलिपुट: पुनर्व्यजिज्ञपत्स्वामिन् ! अयमेवंलब्धिसम्पन्नोऽम्मडपरिव्राजक: कदा सर्वविरतिपरिणाममनुभविष्यति ?, कथं वा कालं करिष्यति ?, कालं कृत्वा क्वोत्पत्स्यते ?, कदा वाऽशेषकर्मक्षयं विधाय परमगति प्राप्स्यति ?, इत्यादि पुष्ट: स्वामी पुनरवोचत् गौतम ! न तावदस्मिन् भवेऽसौ सर्वविरतिमवाप्स्यति, नापि देशविरतिपरिणामात् प्रतिपतिष्यति, केवलं पूर्ववर्णितगुणकलापोपेतोऽनेकलोकोपकारं कुर्वाणो बहूनि वर्षाणि श्रमणोपासकपर्यायं पालयिष्यति, ततश्चावधिज्ञानेन विज्ञातासन्नमरणो मासिकसंलेखनया षष्टि भक्तान्यनशनेनावच्छिद्यालोचितप्रतिक्रान्त: । समाधिना कालं करिष्यति, कालं कृत्वा ब्रहालोककल्पे देवत्वेनोत्पत्स्यते, तत्र च दश सागरोपमाणि देवभवप्रत्ययं सुखमनुभूय स्वायुष्कक्षयेण च्युत्वा महाविदेहे समुत्पत्स्यते, गर्भस्थे च तस्मिन् पित्रोधर्मे दृढा प्रतिज्ञेतिकृत्वा निवर्तितेषु जातकर्मव्यवहारेषु संप्राप्ते द्वादशे दिवसे स्ववंशज्येष्ठा यथार्थ दृढप्रतिज्ञ इति नाम करिष्यन्ति, ततश्च शुक्लपक्षक्षपाकर इव प्रतिदिवसं प्रवर्द्धमानो यावत्सातिरेकाष्टवर्षो भविष्यति तावत्प्रशस्तेषु तिथिकरणयोगनक्षत्रदिवसमुहूर्तेषु ॥३२॥ कलाचार्यस्य तत्पितरस्तमुपनेष्यंति, सोऽप्यचिरेणैव कालेन सकलकलाकलापकुशल: संपत्स्यते, केवलं नवयौवने वर्तमानोऽपि समस्तभोगाङ्ग प्राप्तावपि Jain Ed e rational library.org KON For Personal & Private Use Only
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy