SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति:मू.देव. गा.८ ॥३०॥ सच्चं । एवं चिंतितस्स य जाईसरणं समुप्पन्नं ।।५३।। पुव्वाहीयं च सुयं सरियं लिंगं च देवयादिनं । गहियं विक्खायजसो जाओ पत्तेयबुद्धो सो ॥५४।। भासइ य इंदनागज्झयणं उप्पण्णकेवलन्नाणो । नीसेसकम्मविगमं काउं मोक्खं च संपत्तो ।।५५।। एवं मिच्छत्तगुणादणभिनिवेसाउ इंदनागेणं । पत्ता सम्मत्ताई जह तह अन्नेऽवि पाविति ।।५६।। सुयएविपसाएणं भणियं मिच्छस्स पंचमं दारं । जयणादारं इण्हिं, कमपत्तं तस्स तं भणिमो ॥५७|| जयणा लहुयागरूई अम्मडसीसोहिऽदत्तभीएहिं । मरणब्भुवगमकरणं बंभे कप्पे समुप्पण्णा ॥८॥ ___मिथ्यात्वस्य यतना प्रक्रान्ता तस्याश्च सामान्यलक्षणं निवेद्य मिथ्यात्वविषयतामाह-यतना लघुतागुरुते उच्यत इति शेषः, यत्यते-प्रयत्न: क्रियते कार्य प्रत्यनयेति यतना, 'लघुतागुरुते' लघुतागुरुतालोचनं चात्र लघुतागुरुते इत्यनेन विवक्षितं, ततोऽयमत्र भावार्थ:- शास्त्रानुसारिकुशाग्रीयबुद्ध्या गुरुलाघवाऽऽलोचनपूर्वं लघुलाभपरिहारेण गुरुलाभाङ्गीकरणं यतना, एतां च मिथ्यात्वविषयां दर्शयितुमुदाहरणमाह-“अम्मडसीसेहिऽदत्तभीएहिं मरणब्भुवगमकरणं' ति अम्मडो नाम परिव्राजकस्तस्य शिष्या:- अन्तेवासिनस्तै:, कीदृशैः ? -'अदत्तभीतैः' अदत्तादानविरतिभङ्गभीतैः, कर्तरि तृतीया, कृतमिति गम्यमानत्वात् 'मरणाभ्युपगमकरणं' मरणं प्राणत्यागस्तस्याभ्युपगम:-अङ्गीकारस्तस्य करणं-विधानं, मिथ्यात्वयतना यथेति शेषः, ननु चेयमदत्तादानविरतिविषया यतना न मिथ्यात्वविषया तत्किमिदमप्रस्तुताभिधानम् ?, उच्यते, यथा चारित्रवतश्चारित्रपरिणाामानुरञ्जितं बाह्यामनुष्ठानं सर्वं चारित्रमित्यभिधीयते तथा मिथ्यादृष्टेमिथ्यात्वानुरञ्जितं सर्वमनुष्ठानं मिथ्यात्वमिति ततो नामिथ्यात्वविषयेयमितो नाप्रस्तुताभिधानं । अहो अम्मडशिष्या: सम्यग्दृष्टयो देशविरताश्च श्रूयन्ते तत्कथमियं मिथ्यात्वयतना?, उच्यते, पारिव्रज्यं हि मिथ्यादृष्ट्यनुष्ठानमत: सम्यग्दृष्टयोऽपि देशविरता अपि मिथ्यादृश इव व्यवह्रियन्ते, न च व्यवहारो न प्रधानमिति वचनीयं, "जइ जिणमयं पवज्जह ता मा ववहारनिच्छए मुयह । ववहारनउच्छेए तित्थुच्छेओ जओऽवस्सं ॥१॥” इतिवचनात्, एतदेव फलद्वारेणोपदर्शयन्नाह-बंभे कप्पे समुप्पण्णा' पदावयवेन पदसमुदायव्यपदेशाद्ब्रह्मणीत्यनेन ब्रह्मलोके इति लभ्यते, ब्रह्मलोके-पञ्चमे कल्पते मिथ्यात्वयतनानुभावादुत्पन्नाः, अन्यथा सम्यग्दृष्टित्वात् केचिदच्युतेऽप्युत्पद्येरन्, उक्तं हि-“उववाओ सावगाणं उक्कोसेणं तु अच्चुओ जाव । जावंति बंभलोओ चरगपरिव्वायउववाओ ॥१॥” इति गाथाऽक्षरार्थः । भावार्थस्तु कथानकगम्यः, तच्चेदम् इह यदा भगवानुत्पन्नदिव्यविमलकेवलज्ञान: क्षायिकदर्शनचारित्रप्रमुखगुणरत्नराजितो जितजगत्त्रयमकरध्वजमहावैरी विजयावाप्तासीममहिमप्राग्भारो ॥३०॥ Jain Educ h ternational For Personal Private Use Only library.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy