SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ॥७॥ कुलक्रमसमायातवेदधर्मोपदेशक: । त्रिविक्रमाभिधो भट्टः, आसीत्तस्य पुरोहितः ॥८॥ युग्मम् । तेनान्यदा स्ववित्तस्य, साफल्यमभिवाञ्छता ! नवपद मिथ्यात्ववृत्तिःमू.देव. नृपत्यनुज्ञयाऽकारि, धर्मबुद्ध्या सरोवरम् ।।९।। सत्त्वाश्रयमतिस्वच्छं, गम्भीरं लोकनन्दनम् । सत्पुरुषमनस्तुल्यं, जलं यत्रावभासते ॥१०॥ पाल्यां देवकुलं तस्य, दोषाः व. यशो KA कारितं चातिसुन्दरम् । तस्यैव सरलो (सो) लक्ष्म्या, विनोदायेव मन्दिरम् ।।११।। परिवेषेण चारामो, रम्यस्तस्य विधापितः । बकुलाशोकपुन्नागनागचम्पकमण्डित: Kगा. ६ ॥२६॥ ॥१२॥ प्रतिवर्ष च तेनात्र मोहान्धेन प्रवर्तित: स यज्ञो यत्र बस्तानां, विनाश: प्रविधीयते ॥१३।। एवं व्रजति काले च, तत्र मूर्छापरायणः । अन्यदाऽऽर्त्तवशो KA मृत्वा, छाग एवोदपादि स: ॥१४॥ भवितव्यनियोगेन, तत्पुत्रैरेव सोऽन्यदा । स्वीकृतो यागकर्मार्थं, मल्यदानात्कुतोऽप्यसौ ।।१५।। नीत: स्वमन्दिरं तत्र, बान्धवादीन् प्रपश्यत: । जातिस्मरणमुत्पन्नं, तस्येहापोहवर्तिनः ॥१६।। सरोऽभिमुखमन्यधुर्नीयमानः क्रतूत्सवे । बिब्बीतिकर्तुमारब्धो, न याति पदमप्यसौ ।।१७।। अत्रान्तरे तपस्व्येको, ज्ञानातिशयसंयुतः । तं रटन्तं समालोक्य, कारुण्यादिदमब्रवीत् ।।१८।। स्वयं वृक्षान् समारोप्य, खातयित्वा सर: स्वयम् । स्वयमुपयाचिताप्तो (?), बिब्बीति किमु वाससे ? ॥१९॥ श्रुत्वा तद्वचनं साधोः, परिभाव्य स्वचेतसि । स्वदोषं मन्यमानोऽनौ, तूष्णीभावमुपेयिवान् ।।२०।। तत: पुत्रादयस्तस्य, कौतुकाकुलमानसाः । साधु वदन्ति व: पाठादज: किं मौनमाश्रित: ? ॥२१॥ साधुनाऽवादि भो भद्रा: !, सैष भट्टस्त्रिविक्रमः ।। यत्प्रवर्तितयज्ञेऽसौ, हन्तुं युष्माभिरिष्यते ।।२२।। तैरूचे प्रत्ययः कोऽत्र ?, सोऽब्रवीत् मुच्यतामसौ । सम्पादयति येनायं, प्रतीति स्वयमेव वः ॥२३।। तथाकृते ततस्तैस्तु, यदनेन धृतं पुरा । निधानं स्वसुतैः सार्द्ध, गत्वा तद्देशमाश्रित: ।।२४।। जातिस्मरणतो ज्ञात्वा, गेहमध्ये व्यवस्थितम् । तत्तेषां 2 दर्शयामास, खुरागैर्विलिखन् महीम् ।।२५।। संजातप्रत्ययास्ते च, गृहीत्वा तं समाययुः । उद्यानवर्त्तिन: साधोः, सकाशं शान्तचेतसः ।।२६।। प्रणिपत्य ततः | प्रोचुर्भगवनेष न: पिता । आसीद्धर्मपरो नित्यं, वेदोदितविधानत: ॥२७|| तथाहि-तडागः खानितोऽनेन, यागाश्च विविधाः कृताः । तदयं किमजो जातोऽकृतकर्मा यथा नर: ? ॥२८॥ इत्येवं तैरसौ पृष्टः, प्रोवाच मुनिपुङ्गवः । अज्ञानफलमेतेन, दुरन्तमुपभुज्यते ॥२९।। यदेव कुरुते जन्तुः, किञ्चित्कर्म शुभाशुभम् । तस्यैव फलमाप्नोति, नाकृतं तूपतिष्ठते ॥३०॥ तथाहि-अधर्मो धर्मबुद्ध्या य:, पूर्वमज्ञानतः कृतः । तस्यार्तध्यानयुक्तस्य, फलमेतदुपस्थितम् ॥३१।। गम्यागम्यं न जानाति, कृत्याकृत्यं न मन्यते । हिताहितं च नो वेत्ति, यस्मादज्ञानमोहित: ।।३२।। उक्तञ्च "अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थं हितमहितं वा न वेत्ति येनावृतो लोकः ॥३३॥" संभावितो गुणो यस्तु, तडागादिविधापने । नाशहेतुत्वतोऽनन्तसत्त्वानां सोऽपि 8॥२६॥ नोचितः ॥३४|| पशुमेधादियागाश्व, यैर्धर्माय प्रवर्तिताः । तेऽपि तत्त्वपथोत्तीर्णाः, परलोकविबाधका: ॥३५।। उक्तं च कृष्णद्वैपायनेन-"धुवं प्राणिवधो Jain Educ a tional For Personal Private Use Only K ibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy