________________
नवपदवृत्ति: मू. देव.
वृ. यशो ॥२५॥
एवं गोट्ठामाहिलचरियं संखेवओ समक्खायं । सपसंगं वित्थरओ आवस्सयविवरणा नेयं ||३४|| एवं च दर्शितानि जमालिप्रभृतीनि "मड्भेएण जमाली" त्यादिगाथोद्दिष्टान्युदाहरणानि, तत्प्रदर्शने च व्याख्याता प्रपञ्चेन तृतीयद्वारगता "मइभेया पुव्वोग्गहे" त्यादिगाथा ।। अधुना चतुर्थेन दोषद्वारेणाभिधित्सुराहमिच्छत परिणओ खलु, नारयतिरिएसु भमइ इह जीवो । जह नंदो मणियारो तिविक्कमो जह य भट्टो वा ॥ ६ ॥
मिथ्यात्वात्मना परिणतो मिथ्यात्वपरिणतः, खलुशब्दोऽवधारणार्थः, मिध्यात्वपरिणत एव किं ? -नारकतिर्यक्षु भ्रमति इह जीवः, नारकाच तिर्यञ्चश्च नारकतिर्यञ्चस्तेषु ‘भ्रमति' पर्यटति 'इह' लोके 'जीवः' आत्मा, न सम्यक्त्वपरिणतोऽपि तस्य तदायुर्बन्धानुपपत्ते:, उक्तञ्च - "सम्मद्दिट्ठी जीवो विमाणवज्जं न बंधई आउं । जइवि न सम्मत्तजढो, अहव न बद्धाउओ पुव्विं ॥१॥" ति, धर्मदासगणिनाऽप्युक्तम्- “सम्मत्तंमि उ लद्धे, ठड्याइं नरयतिरियदाराइं । दिव्वाणि माणुसाणि य मुक्खसुहाई सहीणाई || १ || " ति मिध्यात्वपरिणत इत्यनेन च विशेषणेनैकान्ताविचलितैकस्वरूपस्यात्मनो निषेधमाह, तस्य तथापरिणामासंभवात्, एकस्वरूपत्वे चात्मनो बन्धमोक्षाद्यभावात् । नारकतिर्यक्षु भ्रमतीत्यनेनापि निष्क्रियसर्वगतात्मवादिमतं निराचष्टे, तथाभूतस्य नारकादिभ्रमणानुपपत्तेः स्वर्गनारकादिसाधकबाधकानुष्ठानवैयर्थ्याच्च, अत्र च बहु वाच्यं तत्तु ग्रन्थगौरवभयात्परिहृतमिति । प्रक्रान्तार्थसमर्थनार्थमेव द्दष्टान्तद्वयमाह-यथा नन्दो मणिकारः त्रिविक्रमो यथा भट्टो भ्रान्तवान् तत्राद्यः सादेर्द्वितीयस्त्वनादेर्मिथ्यात्वपरिणामस्य प्रतिपादनार्थो द्दष्टान्तः, वाशब्दस्तदन्यैवंविधदृष्टान्तसूचनार्थो द्रष्टव्यः । ननु च सम्यक्त्वादिदोषद्वारेषु तद्विपक्षे दोषानभिधास्यते, इह तु किमर्थं स्वरूप एवोक्तः ?, सत्यं, सम्यक्त्वादीनां स्वरूपतो गुणरूपत्वात् तद्विपक्षे दोषाभिधानं, मिथ्यात्वस्य तु तद्विपर्यत्वात्स्वरूपमेवेति न दोष:, अत एव सम्यक्त्वदोषद्वारे तद्विपक्षे मिथ्यात्वे दोषं “सम्मत्तपरिब्भट्ठो जीवो दुक्खाण भायणं होइ" इत्यादिना वक्ष्यति कथितः सप्रपञ्चो गाथाऽक्षरार्थः, भावार्थस्तु कथानकाभ्यामवसेयः, तत्र च नन्दमणिकारकथानकं सम्यक्त्वदोषद्वारे वक्ष्यामः, त्रिविक्रमभट्टकथानकं त्वभिधीयते
असङ्ख्यवलयाकारद्वीपसागरवेष्टितः । राजतस्थालसंस्थानो, लक्षयोजनविस्तृतः ॥ १॥ अनन्तवर्षीस्थतिकः, सप्तवर्षाश्रयोऽपि सन् । मेरुमण्डितमध्योऽपि, नमेरुसहितः क्वचित् ॥ २ ॥ हिमवत्प्रमुखैर्युक्तः, षड्भिर्वर्षधराद्रिभिः । गङ्गादिसन्नदीरम्यो, जम्बूद्वीपोऽस्ति विश्रुतः ॥ ३|| मेरोर्दक्षिणतस्तत्र, षट्खण्डप्रविराजितम् । विद्यते भारतक्षेत्रं, शशाङ्कशकलाकृति ||४|| विहारभवनारामवापीकूपादिशोभितम् । तस्य मध्यमखण्डेऽभूत् पुरं क्षितिप्रतिष्ठितम् ||५|| प्रशास्ति तत्तदा नीत्या, वैरिवारणकेसरी । प्रतापाक्रान्तभूपीठो, जितशत्रुर्महीपतिः || ६ || शान्तिकर्माभिचारादिप्रयोजनपटुस्थिरः । आन्वीक्षिक्यादिविद्यासु, परं प्रावीण्यमागतः
For Personal & Private Use Only
Jain Education International
॥२५॥
www.jamne brary.org