SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ यज्ञे, नास्ति यज्ञस्त्वहिंसकः । तस्मात् सत्यमहिंसा च, सदा यज्ञो युधिष्ठिर ! ॥३६॥ दया दानं तपो होमः, सत्ययूपो गुणाः पशुः । नवपदवृत्तिःमू.देव. ब्रह्मचर्यमलोभाग्निरेष यज्ञः सनातनः ॥३७॥ पशुंश्च ये तु हिंसन्ति, लुब्धाः क्रव्येषु मानवाः । ते मृत्वा नरकं यान्ति, नृशंसाः पापकर्मिणः वृ. यशो ॥३८॥" इत्यादि, एवमाकर्ण्य ते सर्वे, मुनेर्वाचो मनोहराः । संजातभववैराग्याः, श्रावकत्वं प्रपेदिरे ।।३९।। अज: साधुसमीपे च, सद्विवेकमुपागतः । प्रपद्य ॥२७॥ देशविरति, गृहीत्वाऽनशनं तथा ।।४०।। समः समस्तसत्त्वेषु, नमस्कारपरायणः । मृत्वा भावस्व(स्वर)रूपोऽसौ, देव: समुदपद्यत ।।४१।। मिथ्यात्वं KA दुर्गतहेतुस्त्रिविक्रमकथानत: (कात्) । एवं विज्ञाय भो भव्या: !, युष्माभिस्त्यज्यतामदः ।।४२॥ श्रुतदेव्याः प्रसादेन, दोषद्वारे निरूपितम्। मिथ्यात्वमधुना तस्य, KA गुणद्वारं क्रमागतम् ।।४३।। तदाह मिच्छत्तस्स गुणोऽयं, अणभिनिवेसेण लहइ संमत्तं । जह इंदनागमणिणा गोयमपडिबोहिएणंति ॥७॥ ___ व्याख्या-मिथ्यात्वं नाम विपरीतबोधस्वरूपम्, उक्तञ्च-"मिथ्यात्वस्य हृदये जीवो विपरीतदर्शनो भवति । न च तस्मै सद्धर्मः स्वदते K पित्तोदये घृतवत् ॥१॥" तस्य गुणोऽयम्-एषोऽनभिनिवेशरूपो, वर्तत इति शेषः, कुत: ? इति चेदाह-'अनभिनिवेशेन लभते सम्यक्त्वं' यत इत्यध्याहारात, यस्मादभिनिवेश:-कदाग्रहस्तस्याभावोऽनभिनिवेशस्तेन हेतुना करणेन वा 'लभते' प्राप्नोति, अनभिनिविष्टमिथ्याष्टिरिति शेषः, किं ?'सम्यक्त्वं' यथाऽवस्थितार्थप्रतिपत्तिरूपं, सम्भवापेक्षया चैतदुच्यते, न च नियमः, यदुक्तम्-“विवरीयसद्दहाणे मिच्छा भावा न सन्ति केइ गुणा। अणभिनिवेसाओ कयावि होइ सम्मत्तहेऊवि ॥१॥' त्ति । ननु मिथ्यात्वस्य सर्वघातिप्रकृतिमध्यपठितत्वात्कथं गुणरूपता ?, सत्यं, गुणहेतुत्वात्, गुणहेतुत्वं च तस्यानेकभेदत्वेन विशुद्धितारतम्यस्य घटमानकत्वात्, “जत्तियाई संकिलेसट्ठाणाई तत्तियाई विसोहिट्ठाणाई ' तिवचनाद्, व्यवहारनयापेक्षं चेदं, निश्चयत: सम्यग्द्यष्टरेव सम्यक्त्वं लभत इत्युक्तेः, प्रकृतानुरूपनिदर्शनप्रतिपिपादयिषयाऽऽहं-"यथेन्द्रनागमुनिना गौतमप्रतिबोधितेने' ति यथेत्युदाहरणोपदर्शनार्थः, 'इन्द्रनागमुनिना' इन्द्रनागश्चासौ बालतपस्वितया प्रसिद्धत्वान्मुनिश्च स तथा तेन, किंविधेन?-गौतमः-चरमतीर्थकृत: प्रथमगणधरस्तेन प्रतिबोधित:-सन्मार्ग लम्भितस्तेन, लब्धमिति शेषः, 'इतिशब्दः' एवंप्रकारान्यज्ञातसूचनार्थ इति गाथाऽक्षरार्थ: ।। भावार्थस्तु कथानकगम्यः, तच्चेदम् जंबुद्दीवे दीवे, भारहखेत्तस्स मज्झिमे खंडे । अस्थि पुराणपसिद्धं नामेण वसन्तपुरनगरं ।।१।। उत्तुङ्गदेवमन्दिरपायारट्टालहट्टसोहाए । दिट्ठबहुदेसपहियाण कुणइ जं मणचमक्कारं ।।२।। सयउच्छवंमि जंमि उ वज्जिरआउज्जगुहिरसद्देणं । मंगलरवमुहलेणं सुव्वइ न जणेण जणसद्दो in EM For Personat Private Use Only Xibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy