SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: मू.देव. वृ. यशो ॥३०७॥ निदर्शनं 'स्कन्दकेन' भगवद्वर्द्धमानस्वामिशिष्येण 'अत्र' निरतिचारानशने, द्रष्टव्य इति शेष इति गाथासमासार्थः ।। व्यासार्थस्तु कथानकादवसेयः, तच्चेदम् श्रावस्त्यां नगर्यामतिपरिचितचतुर्दशविद्यास्थानः परिव्राजकसमयरहस्यवेदां त्रिदण्डकुण्डिकायुपकरणधारी स्कन्दकाभिधानः परिव्राजकः प्रतिवसति स्म, तस्यां च तदा बभूव पिङ्गलकनामा समुपलब्धजीवाजीवादिपदार्थसार्थपरमतत्त्वो भवगतो वर्द्धमानस्वामिनः सदुपदेशरहस्यश्रावकः प्रधानः शिष्यः, स च कदाचिदुटजव्यवस्थितस्य स्कन्दपरिव्राजकस्य समीपमुपगत्यैवमुक्तवान्-भो भोः स्कन्दक ! किं शाश्वता लोकजीवसिद्धसिद्धिपदार्था अशाश्वता वा?, केन वा मरणेन प्रियमाणो जीवः संसारं वर्द्धयति ? हापयति वा?, द्वित्रा वाराः पृष्टश्चैवं यावदसौ मौनमालम्ब्य स्थितस्तावत्पिङ्गलको गतः स्वस्थानं, अत्रान्तरे तस्या एव नगर्या बहिर्तिनी कोष्ठकाभिधानोद्याने समवसृतो भगवन्महावीरतीर्थकरः, आकर्णितो जनपरम्पराप्रवादतः स्कन्दकपरिव्राजकेन, चिन्तितं च-त्रिकालदर्शी भगवान् श्रूयते, तद्गत्वा पृच्छामि तदहं यत्पृष्टः पिङ्गलकेन, ततो गृहीत्वा त्रिदण्डकुण्डिकाछत्रपादुकादि निजोपकरणं प्रस्थितो भगवतो महावीरतीर्थकरस्याभिमुखं, अत्रान्तरे भणितः परमेश्वरेण गौतमस्वामी, यथा-गौतम ! द्रक्ष्यसि त्वमद्यपूर्वसङ्गतिकं, गौतम उवाच-कं भदन्त ! द्रक्ष्यामि ?, भगवतोदितं-स्कन्दकपरिव्राजकं, गौतमो बभाण-कथं ?, ततः स्वामिना निवेदितं यावत्सविस्तरं तदीयमागमनकारणं तावत्समाययौ तमेव देशं स्कन्दपरिव्राजकः, आभाषितः ससंभ्रमोत्थानपुरस्सरं गौतमेन, यथा-स्कन्दक ! स्वागतं ते ?, स्वामिना तु पिङ्गलक्यावकपृच्छानिर्णयार्थ त्वमागतोऽसीत्यभिधायस्कन्दक ! द्रव्यपदार्थतया शाश्वता लोकादयोऽतीतानागतादिपर्यायापरापरपरिणत्या त्वशाश्वताः, तथा ज्वलनप्रवेशादिभिर्बालमरणैर्जीवो वर्द्धयति संसारं पण्डितमरणैस्तु भक्तपरिज्ञानादिभिर्हापयतीत्यभिहितं, ततस्तथेति प्रतिपद्य स्कन्दकः पुनः पप्रच्छ भगवन्तं विशेषतो धर्म, भगवता च प्ररूपितः सविस्तरोऽयं, तं चाकर्ण्य प्रतिपद्य भावसारमेनं गत ईशानदिशं स्कन्दकः, परित्यज्य तत्र परिव्राजकोपकरणमशेषमागतो जिनपतिसमीपं. जगाद चप्रसादं कृत्वा विधेहि मामात्मशिष्यं, तदनु तीर्थकरेण प्रवाजितः स्वयमेव स्कन्दको, ग्राहितः सकलां साधुसमाचारीम्, अष्टासु प्रवचनमातृषु परं | प्रावीण्यमनुप्राप्तो, जातः क्रमेणैकादशाङ्गधारी, विविधतपोविशेषोद्यतमतिश्चासौ अन्यदा रजन्याः पश्चिमे यामे चिन्तयामास-यावन्ममास्ति देहस्य पाटवं यावदेति न जरा मे । यावनेन्द्रियहानिर्यावज्जिनसंनिधानं च ॥१|| तावत्करोमि गुणरत्नवत्सरं दुश्चरं तपःकर्म । परिपूर्णा सामग्री दुरवापा येन संसारे ।।२।। युग्मम् ।। अत्रान्तरे विभाता रजनी समुद्गतः कमलवनोद्घाटनं कुर्वाणः सहस्ररश्मिस्ततो गतो भगवदन्तिकं स्कन्दकः, कथितो वन्दनापूर्वं तीर्थनाथस्य स्वकीयोऽभिप्रायः, स्वामिनाऽनुज्ञातः, प्रारब्धो गुणसंवत्सरं तपः कर्तु, तेन चासौ संजातोऽस्थिचर्मावशेषः, तत्समाप्तौ पुनश्चिन्तितमनेन 8॥३०७॥ in E drene For Persona Private Use Only
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy