________________
नवपद-8
वृ. यशो ||३०६॥
न वचनीय इति वाच्यं, यतस्तत्र स्वजात्यपेक्षया यदा मनुष्यः सन् मनुष्येषूत्पद्यते तदा परभवोऽपीहलोकशब्देन विवक्षितः, परलोकस्तु भंगद्वारं विजातीयो देवेन्द्रादिभवः, इह तु सामान्येनैव ये कामभोगा ऐहभविकाः पारभविकाश्च ते विवक्षिता इति पृथगुपादानमस्याऽविरुद्धमेवेति, अयंगा .१३६ च पञ्चमोऽतिचारोऽत एव 'मरणंते पंच अइयार' त्ति मरणं-प्राणत्यागस्तस्यान्तहेतुत्वान्मरणान्तः संलेखनोच्यते तस्मिन् मरणान्ते ‘पञ्चातिचाराः' पञ्चसङ्ख्या अतिक्रमविशेषाः, एतांश्च स्वरूपतो ज्ञात्वा मतिमान् विवर्जयेदिति भावार्थः, यदुक्तं नियुक्तिकृता-“अपच्छि मा मारणंतियासलेहणाझूसणाराहणा य, इमीए समणोवासए णं इमे पंच अइयारा जाणियव्वा न समायरियव्वा, तंजहा-इहलोगासंसप्पओगे परलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे य' त्ति गाथार्थः ।। इदानीं भङ्गद्वारमावेद्यते
पडिवज्जिऊण अणसण पुणरवि आहारमाइ पत्थेइ । आउट्टियाइणा जड़ तो भंगो जायए तस्स ॥१३६॥
'प्रतिपद्य' अङ्गीकृत्य 'अनशनं' चतुर्विधाहारपरित्यागरूपमन्त्यप्रत्याख्यानं, 'अनशन' मित्युनुस्वारलोपश्च प्राकृतत्वेन, 'पुनरपि' भूयोऽपि 'आहारमाइ' त्ति मकारस्यालाक्षणिकत्वादाहारादि आहारम्-अशनं आदिशब्दात् पानादि ‘प्रार्थयते' अभिलषति कश्चित् अशुभाध्यवसायनिरुपक्रमबद्धायुष्को गुरुकर्मेति शेषः, किमनाभोगादिना प्रार्थयते नेत्याह-'आकुट्ट्यादिना' उपत्यकरणादिना, आदिशब्दाद्दर्पण, 'यदी' त्यभ्युपगमे 'तो' त्ति ततो 'भङ्गः' सर्वनाशः 'जायते' संपद्यते 'तस्य' संलेखनारूपनियमस्येति गाथार्थः ।। भावनाद्वारस्याधुनाऽवसरः, तत्रेयं गाथा
पणमामि अहं निच्चं अणसणविहिणा य निरइयारेहिं । जेहिं कयं चिय मरणं, दिळतो खंदएणेत्थ ॥१३७।।
'प्रणमामि' प्रकर्षेण नमस्करोमि 'अह' मित्यात्मनिर्देशे नित्यं सदा, तान् सद्यतीनिति गम्यते, यैः किमकारीत्याह-'अणसणविहिणा य निरइयारेहिं जेहिं कयं चिय मरणं' ति, 'अनशनविधिना' भक्तपरिज्ञाविधानेन, 'चः' पूरणे 'निरतिचारैः' इहलोकाशंसाद्यतिचारविप्रमुक्तैर्यैः ‘कृतमेव' विहितमेव 'मरणं' प्राणत्यागरूपं, यैरुपात्तपुण्यप्राग्भारैः शुभाध्यवसायबलिनिबद्धसुदेवाद्यायुष्कैनमस्कारप्रत्याख्यानादिसामग्रीसमन्वितैर्निरतिचारैः सद्भिर्लोकचमत्कारकारि मरणमाराधितं तानहं प्रणौमीति तात्पर्य, एवंविधं च त्रिकालमनुस्मरणं गुणवद्हुमानबुद्धिवासितान्तःकरणस्य शुभभावनास्वभावं, ॥३०६॥ गुणाधिकविषयप्रमोदस्य पुण्यबन्धहेतुतया प्रतीतत्वात्, यस्तु गुरुका परसुकृतानुमोदनं कर्तुं न शक्नोति तस्य कुतः शुभा भावनेति, ‘दृष्टान्तः'
Jain Educa
l erational
For Personal & Private Use Only
wwwborld brary.org