________________
नवपदवृत्तिःमू.देव. वृ. यशो ॥९॥
स्थादवतीर्य परित्यक्तपुष्पताम्बूलायुधोपानदादिपदार्थसार्थ एकसाटकमुत्तरासङ्गं विधाय ललाटतटघटितकरकुड्मलः समवसरणभुवमुपसृत्य भक्तिभरनिर्भरान्तःकरणो भगवन्त त्रिः प्रदक्षिणीकृत्य नमस्कृत्य च यथोचितस्थानोपविष्टोऽमृतवृष्टिमिव समस्तशरीरानन्ददायिनी भगवद्देशनामाकर्ण्य संसारभयोत्रस्तचेता विधिना स्वामिनोऽजिज्ञपत्, यथा-भगवन् ! पितृभ्यां गृहिण्या चानुज्ञातो युष्मदन्तिके ग्रहीतुमिच्छामि प्रव्रज्यां, भगवता तु देवानुप्रिय ! मा प्रतिबन्ध विधत्स्वेत्युक्तंः पुनस्त्रिः प्रदक्षिणीकृत्य नमस्कृत्य च भगवन्तं समवसरणानिष्क्रम्य तमेव रथमारुह्य तथैव स्वनगरमध्येन निजगृहं गत्वा पितरावपृच्छत्, ताभ्यां च कथंकथञ्चिदनुमतो गृहिणीसकाशं समागात्, तया च प्रतिपन्नदीक्षाऽभिलाषया सहैव स्नातविलिप्तगृहीतालङ्कारो जिनभवनेषु विरचितमहापूजो दीनानाथकृपणादिलोकेभ्यो यथेच्छं दानं ददत् पुरुषसहस्रवाह्यां शिबिकांमारुह्य महाविभूत्या भगवन्तमुपतस्थौ, भगवता च जमालिकुमारः पञ्चशतराजपुत्रपरिवारो दीक्षितः, तत्पत्नी च सुदर्शना सहस्रपरिवारा प्रव्राजिता, द्वयोरपि सामायिकाद्येकादशाङ्गपर्यन्ता श्रुतसम्पत्सम्पन्ना, कालेन गीतार्थतायां जातायां जमालिराचार्यो विहितः, स च कदाचिद्भगवन्तं महावीरमभिवन्द्यैवमवोचत्यथाऽहमभिलषामि भगवदनुज्ञया पञ्चभिरनगारशतैः परिवृतो ग्रामनगरादिषु विहर्तुं, ततो भगवानेतद्वचनमाकर्ण्य भाविदोषावलोकनेन तूष्णीं व्यवस्थितः, पुनर्भणिते च यावन्न किञ्चिदुत्तरमलभतं ततो भगवन्तमभिवन्द्य बहुशालकचैत्यानिर्गत्य पञ्चशतसाधुपरिवारो ग्रामानुग्रामं विहर्तुमारेभे, अन्यदा श्रावस्त्या नगर्या बहिस्तिन्दुकोद्यानवर्त्तिनि कोष्ठकचैत्ये समागतः, तत्र च तस्य प्रान्ताहारादिभिर्गाढतरो रोग उदपादि, ततः श्रमणानाहूय भणितवान्-यथा दाघज्वरेण विह्वलीकृतं मे शरीरं न शक्नोमि क्षणमप्युपविष्टः स्थातुमतो यदि यूयं मद्योग्यं | शय्यासंस्तारकं कुरुथ तदा शयित्वा पीडायापनां करोमि, तैश्चेच्छामः कर्तुमेवमित्याभिधाय संस्तरीतुमारब्धं, स च गाढवेदनया दोदूयमानतनुः पुनरवादीद्-यथा भोः श्रमणाः ! संस्तीर्णं न वा ? इति, ते ऊचुः-संस्तीर्ण, ततोऽसौ यावदीक्षाञ्चके तावदसंस्तीर्णमेव संस्तारकं विलोक्यं बाढं कषायितचित्तोऽपि तदा साबाधत्वान्न किञ्चिटुक्तवान्, केवलं संस्तीर्णे परिपूर्णसंस्तारके शयित्वा पीडाविगमं विधाय क्षणान्तरे स्वस्थशरीरस्तपोधनानाहूय पप्रच्छ-कि भो ! भवद्भिरर्द्धसंस्तीर्णोऽपि संस्तारकः संस्तीर्ण इति भणितः, तैरवाचि-“कज्जमाणे कडे चलमाणे चलिए उईरिज्जमाणे उईरिए निज्जरिज्जमाणे निज्जिण्णे' इत्यादिभगवद्वचनप्रामाण्यात्, एतदाक्र्ण्य जमालिभवितव्यतावशेन तत्क्षणोपजातमिथ्यात्वकर्मोदयो भगवान् तत्र भ्रान्त इत्यवदत् यतो न खलु संस्तीर्यमाणसंस्तीर्णयोरेककालत्वं, क्रियाकालनिष्ठाकालयोरत्यन्तभेदात्, अतो भगवद्वचनं मिथ्येति प्रतिजानीम:, प्रयोगश्वात्रक्रियमाणं कृतमित्याद्यर्थप्रतिपादकं भगवद्वचनं मिथ्या, प्रत्यक्षविरुद्धार्थामिधायित्वाद्, अश्रावणः शब्द इति प्रतिज्ञावचनवत्, न चायमसिद्धो हेतु;, KA
For Personal Private Use Only
॥९॥
x
ation
YAVbrary.org