________________
मर्तिभेदे
KX
जमालि चरितम्
नवपद
अणुग्गहो नाणमाईणं ॥शा" अतोऽन्वयव्यतिरेकाभ्यां साध्वदर्शनेन मिथ्यात्वं सुप्रसिद्धमेव, मतिभेदादिकारणेभ्यश्च मिथ्यात्वोत्पत्तौ जमालिप्रभृतयो वृत्तिःमू.देव.
दृष्टान्ताः, तथा चोक्तम्-"मइभेएण जमाली पुबुग्गहियंमि हवइ गोविंदो । संसग्गि सागभिक्खू गोट्ठामहिलो अभिनिवेसे ॥१॥' त्ति, KB वृ. यशो
Kएते च यद्यपि सूत्रकारेण सूत्रगाथायां नोपात्तास्तथाऽपि प्रपञ्चितज्ञविनेयानुग्रहाय वृत्तौ मया दर्श्यन्ते, तत्र मतिभेदे जमालिकथानकं तावत्कथ्यते॥८॥
इहैव जम्बूद्वीपे भरतवर्षालङ्कारभूतं धनधान्यहिरण्यादिसम्पदुपेतं क्षत्रियकुण्डग्रामाभिधानं नगरं, तत्र च तदा भगवतो महावीरस्वामिनो ज्येष्ठभगिन्याः प्रियदर्शनाभिधानायास्तनयो नविनयसम्पन्नः सत्त्वेषु दयापरः परमनिजरूपोपहसितकामो जमालिनामा क्षत्रियकुमारः प्रतिवसति स्म, तस्य च वर्द्धमानस्वामिदुहिता स्वशरीररूपसौन्दर्यविजितामरसुन्दरीका प्राणेभ्योऽपि प्रियतरा सुदर्शनाऽभिधाना पत्नी बभूव, तया सह जीवलोकसारं पञ्चप्रकारं विषयसुखमनुभवतो व्यतिक्रान्तः कियानपि कालः, अन्यदा निजभवनवातायनस्थितस्त्रिकचतुष्कचत्वरादिप्रदेशेषु गृहीतोदारवेषालङ्कारं सारतरविचित्रपरिवारं नानाविधयानवाहनाधिरूढं ब्राह्मणकुण्डग्रामनगराहिर्बहुशालकचैत्ये विमुक्तराज्यपुरपरिजनबन्धुवर्गोऽङ्गीकृतसमस्त-सावद्यविनिवृत्तिरूपापवर्गमार्गो विषोढगाढपरीषहोपसर्गोऽतिक्रम्य सार्द्धषण्मासाधिकद्वादशवर्षमात्र छद्मस्थपर्यायं विधाय घातिकर्मक्षयं समुत्पाद्याखिललोकालोकप्रकाशनप्रत्यलं केवलं विहरन् ग्रामारामनगराकरविहारमण्डितां वसुमती श्रमणो भगवान् महावीरोऽद्य समवसृतस्तदर्शनवन्दनाद्यर्थमेत यात यास्यथ गता यास्याम इत्याद्यनेकप्रकारं परस्परमालापं कुर्वाणं सकलमेव तन्नगरनिवासिलोकमालोक्य समुत्पन्नकुतूहलः समासन्वर्त्तिनमाहूय कञ्चुकिनं पप्रच्छ-अहो कोऽयमवाद्योत्सवप्रकारो यत्र समस्त एव सान्तःपुरपरिजनो जन एष प्रयाति ?, तेन च लोकवाक्यात्पूर्वमेवावगतवृत्तान्तेनोक्तं-यथा ब्राह्मणकुण्डग्रामनगराबहिर्बहुशाल्कचैत्ये तवैव । मातुलः श्वशुरश्च श्रमणो भगवान् महावीरः समवसृतस्तद्वन्दनाद्यर्थमेष लोक एवमुत्सुको व्रजति, एतदाकर्ण्य हर्षप्रकर्षाद्भिनरोमाञ्चो निजसेवकं पार्श्ववर्तिनमवादीद्यथा गच्छ शीघ्रं यानशालायां चतुर्घण्टं रथं साश्वं प्रगुणीकृत्यात्रोपतिष्ठ येनाहमपि भगवद्वन्दनाय गच्छामि, स यथाऽऽज्ञापयति कुमार इत्यभिधाय त्वरितपदैर्भवनानिश्चकाम, कुमारस्तु ततः स्थानादुत्थाय मज्जनगृहं जगाम, तत स्नात्वा विहितकर्पूरकस्तूरिकामिश्रश्रीचन्दनविलेपनो गृहीतसारालङ्कारो यावदास्ते तावदत्रान्तरे पूर्वप्रेषितः सेवकः सज्जीकृतचतुर्घण्टरथो व्यजिज्ञपत्, यथा कुमार ! सम्पादितत्वदादेशोऽहमेष तिष्ठामि, कुमारस्तद्वचनमाकर्ण्य त्वरिततरचरणन्यासं गृहानिष्क्रम्य तमेव रथमारुह्योपरि धार्यमाणप्रवरातपत्रो धनुष्काण्डखड्गफलकादिनानाविधायुधसहायैः पुरतः पृष्ठतो धावद्भिः | पदातिनिवहैरनुगम्यमानः क्षत्रियकुण्डग्राममध्ये बहुशालकचैत्याभिमुखः कियन्तमपि भूभागमुल्लध्याग्रतो नातिदूरवार्त्तिसमवसरणमवलोक्य नियन्त्रिततुरगो
नादुत्थाय मजव्यजिज्ञपत, याकाण्डखड्गफल
1॥८॥
स्थमारुहोघण्टरथो व्यागाम, तत सामगवद्वन्दनाय,
Jain Educ
a
tional
For Personal & Private Use Only
w
eMeibrary.org