________________
नवपद- वृत्ति: म.देव. वृ. यशो ॥७॥
विधा नयमतभेदाद् यस्य तद् अनेकविधम्-अनेकप्रकारम्, अनेकधर्मात्माके वस्तुनीतरधर्मप्रतिक्षेपेणैकधर्माश्रिताध्यवसायस्य मिथ्यात्वरूपत्वात्, तस्य च सङ्ख्यातुमशक्यत्वात्, तदुक्तम्-"जावइया वयणपहा तावड्या चेव हुंति नयवाया। जावइया नयवाया तावइया चेव परसमया | ॥१॥" इति ।। इति गाथार्थः ॥४॥ व्याख्यातं द्वितीयेन भेदद्वारेण, अधुना तृतीयेनाभिधित्सुराह
मइभेया पुव्वोग्गह संसग्गीए य आभिनिवेसेण । चउहा खलु मिच्छतं साहूणमदंसणेणऽहवा ॥५॥
जायत इति क्रियाऽध्याहाराच्चतुर्द्धा खलु मिथ्यात्वं जायत इति सम्बन्धः, कैश्चतुर्भिः प्रकारैः ? इत्याह-‘मति भेदात्' मतिः-बुद्धिस्तस्या भेदो-विशेषो यथाऽवस्थितसमस्तवस्तुप्रतिपत्तावप्येकत्र कुत्रचिदर्थेऽन्यथा प्रतिपत्तिरूपस्तस्मान्मतिभेदादित्येकः प्रकारः, 'पुव्वोग्गह' त्ति सूत्रत्वाल्लुप्तपञ्चम्येकवचनो निर्देशः, ततः पूर्वव्युद्ग्रहादित्यर्थः, स च पूर्व कुदर्शनवासनावासितान्तःकरणस्य जीवद्रव्यस्य युक्तिशतैर्भूयो भूयः प्रतिबोध्यमानस्यापि तत्संस्कारावृत्त्या कदाग्रहस्तस्माच्च मिथ्यात्वं जायत इति द्वितीयः कारणप्रकारः, 'संसग्गीय' ति मिथ्याष्टिभिः सह यः सम्बन्धः स संसर्गोऽत्र विवक्षितस्तस्माच्चेति तृतीयः कारणविकल्पः, अयं च दोषहेतुत्वेन सुप्रतीत एव, यदुक्तम्-"अंबस्स य निंबस्स य दुण्हपि समागयाई मूलाई । संसग्गीऍ विणट्ठो अंबो निंबत्तणं पत्तो ॥१॥" तथा-"तिलाश्चम्पकसम्पर्कात्प्राप्नुवन्त्यधिवासनम् । रसोनभक्षस्तद्गन्धः, सर्वे साङ्क्रमिका गुणा ॥२॥" इति, 'अभिनिवेसेणं' ति अभिनिवेशो नामाहमुपुरुषिकयाऽन्यथाभूतस्यापि सतो वस्तुनोऽन्यथा प्ररूपणं तेनेति चतुर्थो हेतुभेदः, 'चउह' त्ति र चतुर्भिः प्रकारैः, खलुशब्दो वाक्यालङ्कारे नतु अवाधारणार्थस्तेनोक्तं-'साहूण अदंसणेणऽहवा' साधवो-यतयस्तेषामदर्शनम्-अनवलोकनम्, अथवाशब्दः समुच्चयार्थस्तेन साधूनामदर्शनेन चेत्यर्थः, एतच्चाऽऽबालगोपालाङ्गनाजनप्रसिद्धमेव प्रेमदृष्टान्तेन, यथा प्रेमात्यन्तवृद्विमुपगतमपि । कालवशेन भादावभीष्टे देशान्तरादिगते निधनमुपयाति, यथोक्तम्-“असणेण सुन्दरि ! सुठुवि नेहाण बन्धुजणियाई। हत्थयलपाणिपाइ व कालेण गलंति पेम्माइं॥" ति, तथा कदाचित्सम्यक्त्वलाभेऽपि सर्वथा साध्वदर्शनेन मिथ्यात्वमुपजायते, अत एव श्रावकाणामेवं सामाचारी भणिता, यथा-"निवसेज्ज तत्थ सट्टो, साहूणं जत्थ होइ संपाओ। चेइयघराइ जहियं तयण्णसाहम्मिया चेव ॥१॥' त्ति, अन्यथा साधुसाधर्मिकचैत्याद्यभावे मिथ्यात्वमपि यायात्, तथा चोक्तं-"न सन्ति येषु देशेषु, साधवो धर्मदीपका: । नामापि तत्र धर्मस्य, ज्ञायते न कुत: क्रिया ? ॥१॥” इति । साधुदर्शने चैवं गुणाः, यथा-“साहूण दंसणेणं, नासइ पावं असंकिया भावा। फासुयदाणे निज्जर
॥७॥
Jain Education rational
For Personal Private Use Only
wwwLMKbrary.org