________________
कश्चिदिति, आरम्भपरिग्रहादिप्रवृत्ता मुत्कलचारिणो मुनयो, यदुक्तं-"खंतापयताव सुरओ रमंतवि, अलिओ मुहुलु चक्कु पूयंतवि । इमं वयंति मिथ्यात्वनवपदवृत्ति:मू.देव.
सिद्धं सुरलोयह, मत्थइ पाओ दिवि पसु लोयह ॥१॥"त्ति । न सन्ति वा केचन, यत उक्तम्- "स्त्रीमुद्रा झषकेतनस्य महतीं सर्वार्थसम्पत्करी,
ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलाकाक्षिणः । ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः, केचित्पञ्चशिखीकृताश्च जटिन: वृ. यशो
भेदाः कापालिकाश्चापरे ॥१॥” इति, वैशेषिकसाङ्ख्यादिप्रणीतान्यपि तत्त्वानि, न वा कानिचित्, इत्यादिरूपं मिथ्यात्वदर्शनं ‘देशितं' कथितं, क्व ?॥६॥
‘समये' सिद्धान्ते, अत एव केनचित्सम्यग्ष्टिना मूढमिथ्याष्टिचेष्टितान्यवलोक्य खेदः कृतो, यथा-"रागी देवो दोसी देवो मामिसुत्तपि देवो,
मज्जे धम्मो मंसे धम्मो जीवहिंसाएऍ धम्मो। सत्ता मत्ता कंतासत्ता जे गुरू तेवि पुज्जा, हा हा कळू नट्ठो लोओ अट्टमट्टं कुणंतो ॥१॥" K इति गाथार्थः ।।२।। व्याख्यातं प्रथमद्वारेण स्वरूपकथनरूपेण मिथ्यात्वमिदानी द्वितीयद्वारेण भेदद्वारं व्याचिख्यासुराह
' आभिग्गहियमणाभिग्गहियं तह अभिनिवेसियं चेव । संसइयमणाभोग मिच्छत्तं पंचहा होइ ॥४॥
____ आभिग्रहिकमनाभिग्रहिकं तथाऽऽभिनिवेशिकं चैव सांशयिकमनाभोगं मिथ्यात्वं पञ्चधा भवति । यद्यपि चान्यत्राभोगानाभागभेदेन द्विविधं 7 मिथ्यात्वमुक्तं, शेषभेदानात्रैवान्तर्भावात्, तत्राभोगमिथ्यात्वं सदेवतानामिति, तथाऽप्यवान्तरभेदापेक्षया प्रकरणकारेण पञ्चधेत्युक्तं, तत्राभिग्रहिकं येन बोटिकादिकुदर्शनानामन्यतमदभिगृह्णाति, अभिग्रहः-आग्रहस्तस्माज्जातमाभिग्रहिकं, क्रीतादेराकृतिगणत्वादिकण, एवमुत्तरत्रापि, तद्विपरीतमनाभिग्रहिकम्, आभीरादीनाम्, ईषन्माध्यस्थ्याद्वाऽनभिगृहीतदर्शनविशेषाणां सर्वदर्शनानि शोभनानीत्येवंरूपा या प्रतिपत्तिस्तदनाभिग्रहिकम्, 'आभिनिवेशिकम्' अभिनिवेशाद्असदाग्रहाज्जातं गोष्ठामाहिलादीनामिव, 'संसयियं' सांशयिकं संशयाज्जातं यदिदमुक्तमर्हता तत्त्वं जीवादि तन्न जाने तथा स्यादुतान्यथेत्येवंरूपम्, 'अनाभोगम्' आभोगो विशिष्टज्ञानं स न विद्यते यत्र तदनाभोगं मिथ्यात्वं एकेन्द्रियादीनामिव, इत्येवं मिथ्यात्वं पञ्चधा भवति, क्वचित्त्वस्या गाथाया इत्थं पाठो दृश्यते-"अभिगहियमणभिगहियं मिच्छत्तं अभिनिवेसियं चेव । संसइयमणाभोगं तिविहं वा अहवऽणेगविहं ॥८॥" तत्र पादत्रयव्याख्या पूर्ववदेव, केवलं मिथ्यात्वशब्दो द्वितीयपादादिवर्त्यपि सर्वपदेषु संबध्यते-आभिग्रहिकं मिथ्यात्वमित्यादि, “तिविहं व'त्ति वाशब्दः पक्षान्तरसूचकः, 'त्रिविधं त्रिविधप्रकारं वा सांशयिकाभिग्रहिकानाभिग्रहिकभेदात्, तदुक्तम्- "तं मिच्छत्तं जमसद्दहणं तच्चाण होइ भावाणं । संसइयमभिग्गहियं अणभिग्गहियं च तं तिविहं ॥१॥" 'अहव अणेगविहं' ति अथवेति प्रकारान्तरद्योतकः, अनेका
Jain Educa
t ional
For Personal & Private Use Only
ww.
brary.org