________________
सप्तमो भेदः, 'भङ्ग' इति यथा चैतेषां भङ्गो भवति-अभावः सर्वथा संपद्यत इत्यष्टमो भेदः, तथा भावना ज्ञेया, यथैतेषां गुणानां वृद्धयर्थ भावना नवपदवृत्ति:मू.देव.
भाव्या इति नवमो भेदः, एते नव भेदाः प्रत्येकं मिथ्यात्वादिषु ज्ञेयाः, भेदा-द्वाराणीति गाथार्थः ।।२।। व्याख्यातानि नामतो नव द्वाराणि, साम्प्रतं वृ. यशो KA
'यथोद्देशं निर्देश' इति न्यायान्मिथ्यात्वमेवाद्यद्वारेण व्याचिख्यासुराह॥५॥
देवो धम्मो मग्गो साहू तत्ताणि चेव सम्मत्तं । तव्विवरीयं भिच्छत्तदरिसणं देसियं समए ॥३॥
देवो धर्मो मार्गः साधवस्तत्त्वानि चैव सम्यक्त्वं, जिनागमाभिहितरूपाणि सर्वाणीति विशेषणपदं चकारेणानुक्तसमुच्चयार्थेन सूचितम्, एवकारोऽवधारणार्थः, स च चकारसूचितविशेषणपदेन संबध्यते, ततोऽयमर्थः-यथाऽवस्थिस्वरूपाण्येव देवादीनि सम्यक्त्वं न विपरीतरूपाणीति, ननु चैतद्विषयो यो रुचिपरिणामः स सम्यक्त्वमुच्यते, कथमेतान्येव सम्यक्त्वमित्युक्तं ?, सत्यं, विषयविषयवतोभेदोपचारवृत्त्या देवादिविषयो रुचिपरिणामो देवादिशब्दैर्विवक्षितोऽतो देवादीनि सम्यक्त्वमित्युक्तम्, एषां च स्वरूपमिदं-'यस्याष्टादश दोषाः क्रुधादयः क्षयमुपागता: सर्वे । मुक्तिप्रदः स देवो विज्ञेयः केवलज्ञानी ॥१॥ यत्र प्राणिदया सत्यमदत्तपरिवर्जनम् । ब्रह्मचर्यं च सन्तोषो, धर्मोऽसावभिधीयते ॥२॥ ज्ञानदर्शनचारित्रपरिपालनलक्षणः । अक्षेपमोक्षनगरप्रापको मार्ग इष्यते ॥३॥ दशविधयतिधर्मरताः समविगणितशत्रुमित्रतृणमणयः। जीवादितत्त्वविज्ञास्तीर्थकरैः साधवः कथिता ॥४॥ तापच्छेदकषैः शुद्धः, सुवर्णमिव यद्भवेत् । युक्तिसिद्धान्तसिद्धत्वात्तत्तत्त्वमभिधीयते ॥५॥' अथवा 'सूचनात्सूत्र'मितिवचनादेवधर्ममार्गसाधुतत्त्वेषु देवाद्यध्यवसायस्यैव देवादिशब्दैर्विवक्षितत्वाद्देवो धर्मो मार्गः साधुस्तत्त्वानि चैव सम्यक्त्वमित्युक्तं, ननु च मिथ्यादर्शनस्वरूपमभिधित्सितं तत्किमर्थमप्रस्तुतं सम्यक्त्वस्वरूपमुक्तं ? सत्यं, सम्यक्त्वमिथ्यात्वयोः शीतोष्णस्पर्शयोरिव परस्परविरोधित्वात् सम्यक्त्वस्वरूपे X ज्ञाते तद्विरोधिमिथ्यात्वस्वरूपं सुज्ञानं भवतीति ज्ञापनार्थम्, अत एवाह-'तव्विवरीय मिच्छत्तदरिसणं देसियं समये'त्ति तस्मात्-सम्यक्त्वस्वरूपे ज्ञाते
देवधर्ममार्गसाधुतत्त्वेषु यथाऽवस्थितरुचिपररिणामरूपाद्विपरीतम् अन्यथा, यथारागादियुक्तोऽपि देवो, नास्ति वा देव; तथा चोक्तम्-'"पत्ती पत्ती पाणिउ पाणिओ, डूंगरु हूंता कक्करु आणिओ। कक्करु अग्गइ वज्जइ तूरा, देखु न माइ विगोया पूरा ॥१॥" इति, प्राणिव्यपरोपणादिनाऽपि धर्मो, नास्ति वा धर्मः, तदुक्तम्-"केण दिट्ठ परलोओ जेण धम्मिण धणु दिज्जइ, काई देवदाणविहि अस्थसंचओ परिकिज्जइ। पियमूढओ जणु सब्बु पहु जो नवि धणु रक्ख, धम्मठ्ठाणकयतणओ साओ अज्जवि नवि चक्खइ ॥१॥” इति, मोक्षस्याज्ञानादिकः, नास्ति वा
Jain Educa
t
ional
For Personal & Private Use Only
www.jainelibrary.org