________________
नवपदवृत्तिःमू.देव. वृ. यशो ॥४॥
नवपदानि गा.२
नवनवद्वारनिरूपणेन तत्राभिहिता इति विशेषाभिधानायेदमारभ्यते, एतेन च पादद्वयेन साक्षात्सप्रपञ्चमभिधेयमुक्तं, सम्बन्धस्तु सामर्थ्येन, तथाहि-मिथ्यात्वादीनि नवभेदानि वक्ष्य इति वदता मिथ्यात्वादयोऽस्याभिधेया इति दर्शितं, प्रकरणाभिधेययोश्चाभिधानाभिधेयसम्बन्धोऽर्थादुक्त इति । 'श्राद्धानामनुग्रहार्थ'मिति श्रद्धा विद्यते येषां ते श्राद्धाः-श्रावकास्तेषां श्राद्धानामिति, अनुग्रह-उपकारस्तदर्थमनुग्रहार्थं, कथं चासौ तेषां कृतो भवति ?, यदा शारीरमानसाद्यनेककेशावासोषितानां चतुर्गतिनिबन्धनान्तजननमरणपरिवर्तननिविण्णानां सकलसन्तापापनोददक्षं निरतिशयसुखस्वभावायापवर्गनगरमार्गप्रदर्शकं जिनवचनमुपदिश्यते, तथा चोक्तम्-'"नृणामनन्तमृतिजन्मजरातुराणां, निःशेषदोषविगमाय समुद्यतानाम् । नान्यो यतेस्त्रिभुवनेऽपि जिनोक्तधर्मशास्त्रोपदेशनसमः परमोपकारः ॥१॥" इति, अनेन च गाथाचरमपादेन कर्तुरनन्तरं प्रयोजनमुक्तं, परम्पराप्रयोजनं तु मुक्तिलक्षणं, श्रोतुश्चानन्तरं मिथ्यात्वादिपदार्थपरिज्ञानं, "सम्यक्तत्त्वपरिज्ञानाद्धेयोपादेयवेदिनः । उपादेयमुपादाय, गच्छन्ति परमां गतिम् ॥१॥" इति वचनात्परम्परया मुक्तिः, प्रयोजनप्रकरणयोः सम्बन्धश्च साध्यसाधनलक्षण इत्यादि सर्वं सामर्थ्यादुक्तमवसेयम् । ननु सम्यक्त्वादीनां निःश्रेयसहेतुत्वाद् युक्तं वचनं, मिथ्यात्वं तु निःश्रेयसपरिपन्थित्वात्किमर्थमुच्यते ?, सत्यं, हानार्थं, न खलु हेयहानमन्तरेणोपादेयमुपादातुं शक्यं, हेयं च मिथ्यात्वं सकलगुणविघातित्वात्, न च हेयमप्यज्ञातं हीयते, इतो नवभिः प्रकारैः सम्यग् ज्ञात्वा सर्वथेदं हेयम्, अस्यार्थस्य ज्ञापनाय कतिपयगुणविघात्त्यन्यहन्तव्योपलक्षणाय चेदमुदितम्, अथवा भेदद्वारे मिथ्यात्वमनेकधा वक्ष्यते, तत्राभिनिवेशरहितामिदं सम्यक्त्वहेतुरेव अतो यथा विरतिहेतुः सम्यक्त्वं वाच्यं तथा तद्धेतुर्मिथ्यात्वमपीति सम्यक्त्वादिवन्मिथ्यात्वमपि उपादेयमेवेत्यत्यधोष इत्यलं प्रसङ्गेनेति गाथार्थः ।। साम्प्रतं 'नवभेयाई वोच्छ' मिति प्रतिज्ञासूत्रप्रतिपादिताः के ते नव भेदाः ? इत्याशङ्कापनोदार्थं नव भेदानाह
'जारिसओ १ जइभेओ २ जह जायइ ३ जह व एत्थ दोस ४ गुणा ५ ।।
जयणा ६ जह अइयारा ७ भंगो ८ तह भावणा ९ णेया ॥२॥ 'याशः' यत्स्वरूपो मिथ्यात्वादिर्गुण इत्येको भेदः, 'यद्भेदः' ये भेदा यस्यासौ यद्भेदो-यावद्भेद इति द्वितीयो भेदो, 'यथा जायते' येन प्रकारेणोत्पद्यते इति तृतीयो भेदः, यथा चात्र दोषाश्च गुणाश्च दोषगुणाः, यथा तद्विपक्षा दोषाः संभवन्तीति चतुर्थो भेदः, यथा च तदासेवने गुणाः संभवन्तीति पञ्चमो भेदः, 'यतने ति गुरुलघ्वालोचनरूपायतना यथैतेषु कर्त्तव्येति षष्ठो भेदः, यथाऽतिचाराः-तदतिचरणरूपास्तेषु संभवन्तीति
॥४॥
Jain EducaYaratonal
For Personal & Private Use Only
wwhyamesbrary.org